This page has not been fully proofread.

४ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
इतस्ततश्च निष्कासितापसृतः स्थिरबुद्धिः । स चेदन्यतो बहु-
लभमानया निष्कासितः स्यात्सेसारोऽपि तया रोपितो ममौमर्पा-
द्वहु दास्यतीति संधेयः ॥
 
इतस्ततश्च निष्कासित उपनपति चेदिति वर्तमाने । स्थिरबुद्धिः स्व-
यमनपसृतत्वात् । अत्र पक्षद्वयमप्यस्ति । स चेदिति । अत्र तर्कयितव्य
इति नोक्तम् । चेच्छन्देनैव यद्यर्थेन तदर्थस्योक्तत्वात् । अन्यत इति । अ-
न्यस्माद्गम्याइहुलभमानयापि निष्कासितः । ससारोऽपि सद्रव्योऽपि । त-
तश्च तया रोषितो जनितरोषोऽमर्षाद्वहु दास्यतीति ज्ञात्वा तदानीमेव
संधेयः । नैवमेषितत्वात् (?) नास्यामनुशयं बध्नाति ।
 
निःसारतया कदर्यतया वा त्यक्तो न श्रेयान् ॥
निःसारतया निर्द्रव्यतया संसारे च (ससारश्च ) कदर्यतया अवदान्य-
तया त्यक्तो निष्कासितोऽपि न श्रेयान् । संधातुमिहापि तुल्यत्वात् ।
 
इतः स्वयमपसृतस्ततो निष्कासितापसृतो यद्यतिरिक्तमादौ च
दद्यात्ततः प्रतिग्राह्यः ।
 
इतः स्वयमपसृतस्ततो निष्कासितापसृत इत्यत्राप्युपजपेदिति वर्तते ।
अत्रापि यदिशब्दात्तर्कयितव्य इति नोक्तम् । अतिरिक्तं पूर्वस्माद्दानात् ।
आदौ च यावदर्थसंप्रयोगः । कृतकृत्यश्च (स्य) हि स्वयमैपसर्पणसंभवात् ।
प्रतिप्रायः संधेयः । अत्र विपर्ययेणाप्रतिग्राह्य इत्यर्थोक्तं (तो) द्वि-
तीयः पक्षः ।
 
इतः स्वयमपसृत्य तत्र स्थित उपजपंस्तर्कयितव्यः ॥
तर्कयितव्यः किमुपकर्तु चोपजपतीति ।
 
अत्र संधेयपक्षमाह -
 
g
 
विशेषार्थी चागतस्ततो विशेषमपश्यन्नांगन्तुकामो [मयि] मां जि-
ज्ञासितुकामः स आगत्य सानुरागत्वाहास्यति । तस्यां वा दोपान्दृष्ट्वा
माय भूयिष्ठान्गुणानधुना पश्यति स गुणदर्शी भूयिष्ठं दास्यति ॥
 
१. 'बहुलभ्यमानया'. २. 'समानया रोपितः', 'स रोपतः'. ३. 'अमर्षाद्दपाहा.
४. 'प्रेयान्'. ५. 'असमर्पण'. ६. 'तत्र'. ७. 'तदर्थागन्तुकाम.', 'नमितुकामः',