This page has not been fully proofread.

३३४
 
कामसूत्रम् ।
 
३२ आदितोऽध्यायः]
 
वक्ष्यमाणेन न्यायेन । सहसा न संधेयः । स इति योऽन्यत्रगतः । कार्य-
युक्त्येति पड़िधः संसृष्टस्त्वेकविधः ।
कार्ययुक्तिमाह-
इतः स्वयम॑पसृतस्ततोऽपि स्वयमेवापसृतः । इतस्ततश्च निष्का-
सितापसृतः । इतः स्वयमंपसृतस्ततो निष्कासितापसृतः । इतः स्वय-
मैपसृतस्तत्र स्थितः । इतो निष्कासितापसृतस्ततः स्वयमपसृतः ।
इतो निष्कासितापसृतस्तत्र स्थितः ॥
 
इत इति । खदोषत एवास्य (?) यदस्या नायिकातः स्वयमेवापसृत्या-
न्यत्र गतस्तत्रापि खदोषोपकृतोऽपि (?) स्वयमेवापसृत इत्येकः । इत-
स्ततश्चेति । अत्राश्रययोर्दोषो नाश्रितस्य दोषः । यस्मादितो निष्कासितो-
उपसृत इत्याश्रयस्य दोषः । ततो यत्र गतस्ततोऽपि निष्कासित एवापसृत
इति द्वितीयः । इतः स्वयमपसृत इत्याश्रितस्य दोषः ततोऽपि निष्कासि
तोऽपसृत इत्याश्रयस्य चेति तृतीयः । इतः स्वयमपसृत इत्याश्रितस्य दोषः
तत्र स्थित इति नोभयोरिति चतुर्थः । इतो निष्कासितापसृत इत्याश्रयस्य
दोषः । ततः स्वयमपसृत इत्याश्रितस्येति पञ्चमः । इतो निष्कासितः स-
मुपसृत्य (निष्कासितापसृतः) इत्याश्रयदोषः तत्र स्थित इति नोमयोर-
पीति षष्ठः ।
 
एपु संघेयासंघेयतया तर्कमाह -
 
इतस्ततश्च स्वयमेवापसृत्योपजपति चेदुभयोर्गुणानपेक्षी चलघु-
द्धिरसंधेयः ॥
 
उपजपति चेदिति । यदि संघातुं पीठमर्दादि मुखेनोपजपति भवती-
(भेदयती) त्यर्थः । तत्र द्वितीयपक्षाभावात्तर्कयितव्य इति नोक्तम् । य
दाह —उभयोरपीति । तस्यास्तस्याश्च ताभ्यामनिष्कासितत्वात् । सतोऽपि
गुँणानपेक्ष्य चलवुद्धित्वात्खदोषमे (षेणै) वापसृतः । स संहितोऽपि न
स्थायी । न च तदस्यार्थेन योग इत्यसंधेयः ।
 
www
 
१. 'अपसृत्य'. २. 'अपसत्य'. ३. 'अपसृत्य'. ४. 'तत्र'. 'स्वयमपसृत्योपैति
चेतू. ६. 'च लघुवुद्धि.'. ७. 'गुणानपेक्षी'. ८. 'संनिहितोऽपि',