2023-02-19 13:59:38 by ambuda-bot
This page has not been fully proofread.
४ अध्यायः]
६ वैशिकमधिकरणम् ।
३३३
कृत्वेत्यर्थः । गम्यैः सं-
परीक्ष्येति सहायगम्यागम्यगमनकारणचिन्तां
योगो गम्योपावर्तनेन । संयुक्तस्यानुरञ्जनं कान्तानुवृत्तैः । रक्तादर्थस्य
चादानं तदुपायैः । अतो मोक्षः स निष्कासनक्रमैः । एतत्सर्वं वेश्योचितं
न कुलयोषिदुचितम् । तच्च वैशिकमिति संज्ञितम् । यदाह कात्यायनः--
'वेशं वेश्याजनोचितमिति सप्रयोजनमस्येति वैशिकम्' । तस्य वेशस्य
प्रयोजनमाह — एवमिति । कल्पेनेति वैशिकाख्येन । नातिसंधीयते ना-
तिबाध्यते (वश्यते) । करोति पुष्कलानिति करोत्यनेकानित्यर्थः । इति
निष्कासनक्रमाः पञ्चपञ्चाशं प्रकरणम् ॥
इति श्रीवात्स्यायनीय कामसूत्रटीकायां जयमङ्गलाभिधानाया विदग्धाद्मनाविरहकात रेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाध्याया वैशिके पष्ठेऽधिकरणेऽधी-
गमोपाया विरक्तलिङ्गानि विरक्तप्रति पत्तिर्निष्कासनक्रमास्तृतीयोऽध्याय ।
शास्त्रकार एव प्रकरणसंबन्धमाह -
वर्तमानं निष्पीडितार्यमुत्सृजन्ती पूर्वसंसृष्टेन सह संदध्यात् ॥
वर्तमानमिति तस्यां यो वर्तते तमलक्तकवन्निष्पीडितार्थमुत्सृजन्ती यदा
त्यक्तुकामा तदा संदध्यात् । एवं सति 'अपवाहयेदन्यमवष्टभ्य' इत्यनुक्तं
(इत्युक्तं ) भवति । विशीर्णेनेति पूर्वसंसृष्टेन निष्कासितेन । संधिक्षणा
इति (?) विशीर्णप्रतिसंधानमुच्यते ।
विशीर्णस्यालक्तकवदुत्सृष्टस्य किं संघानेनेति चेदाह -
स चेदवसितार्थो वित्तवान्सानुरागश्च ततः संधेयः ॥
वित्तवानपि यदावसितार्थोऽवश्यं दास्यतीति । सानुरागश्च । अन्यथा
विश्वसनार्थं यत्किंचिद्दत्त्वापि निष्कासितोऽहमनयेति विरक्तोऽपकुर्यात् ।
तत इति तस्मात्कारणात्संधेयः ।
सोऽप्यनया यदि न संसृष्टस्तत्र विधानान्तरमाह-
अन्यत्र गतस्तर्कयितव्यः । स कार्ययुक्त्या पड्डिधः ॥
अन्यत्र गत इत्यनेन षड़िधो विशीर्ण इति । तर्कयितव्य इति निरूप्यः
१. 'उत्सृजति'. २. 'कार्यवशात्प्रविष्टः'.