This page has not been fully proofread.

३ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३३१
 
पलभ्य चोदना । अशक्तौ हासः । शक्तावनभिनन्दनम् । दि-
वापि । भावमुपलभ्य महाजनाभिगमनम् ॥
 
रतार्थ सरकताम्बूलादिषूपचारेषु उद्वेग इत्यप्रतिग्रहणम् । प्रतिग्रहणे वा
असौमनस्यम् । मुखस्यादानं मुखं चुम्बितुं न देयम् । जघनस्य रक्षणं
स्प्रष्टुं वा न देयम् । नखदशनक्षतेभ्यस्तरकृतेभ्यो जुगुप्सा । 'जुगुप्साद्य-
र्थानाम्' इत्यपादानसंज्ञा । भुजमय्येति । भुजौ व्यत्यस्य । खस्कन्धयोर्नि-
दध्यात् । ततो भुजमेकीकृत्य सूचीव सूची तथा व्यवधानं परिष्वङ्गस्य ।
स्तब्धता गात्राणां कर्तव्या । नाक्रष्टुं दद्यादित्यर्थः । सक्नोर्व्यत्यासः स
क्थिनी व्यत्यासयीत । यन्त्रयोगे प्रतिषेधार्थमुरू व्यत्यसेदित्यर्थः । निद्रा-
परत्वं चात्मनः ख्याप्यम् । श्रान्तमुपलभ्येति । यदि कथंचिद्रन्तुं प्रवृत्त-
स्तत्र श्रान्तं चोदयेत्प्रवर्तयितुम् । न पुरुषायितेन साहाय्यं दद्यात् । तत्र
चोदितस्याशक्तौ हासः कर्तव्यः पार्ष्यामिहत्य यथायं विरक्तीभवति । श-
क्तावनभिनन्दनं वैराग्यख्यापनार्थम् । दिवापीति । अस्त्येव कश्चित्कामग-
र्दमो यः प्रतिषिद्धमपि दिवामैथुनमाचरति । उत्कण्ठां (भावं) संप्रयोगे-
च्छामुपलभ्य चेङ्गिताकाराभ्यां महाजनाभिगमनं रतिगृहान्निर्गत्य । तदि-
च्छाव्याघातार्थम् ।
 
संकथामधिकृत्याह-
वाक्येषु च्छलग्रहणम् । अनर्मणि हासः । नर्मणि चान्यमप-
दिश्य हसति वदति तस्मिन्कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च ।
आइस चास्य कथामन्याः कथाः । तव्यलीकानां व्यसनानां चाप-
रिहार्याणामनुकीर्तनम् । मर्मणां च चेटिकयोपैक्षेपणम् । आगते
चादर्शनम् । अयाच्ययाचनम् । अन्ते स्वयं मोक्षश्रेति परिग्रहकस्येति
 
दत्तकस्य ॥
 
वाक्येष्विति विरूपकमुक्तमिति । अनर्मणीति । क्रीडारहितेऽपि संक-
१. 'दिवाप्यस्य भाव'. २. 'चार्यान्तरमपदिश्य हसेत् । वदति तस्मिन्परिजनत्य
कटाक्षेक्षणम्'. ३. 'उपेक्षणम्', 'उपप्रथनम्'. ४. 'अन्ते च मोक्ष इति परिग्रहकल्पो
दत्तकस्य'.