This page has not been fully proofread.

३३०
 
कामसूत्रम् ।
 
३१ आदितोऽध्यायः]
 
निष्कास्य इति चेदाह — अन्यमवष्टभ्येति । अन्यस्मादुभयोपपत्तेः । वर्त-
मानादन्यं पूर्वसृष्टं विशीर्णमन्यं चास्य चासृत्य ( चानुसृत्य) अपवाहयेदिति
योज्यम् । अन्यथा विपक्षस्याभावात् । सत्यप्युपयोगे सक्तस्यानिष्कासनात् ।
ते च निष्कासनोपायाः प्रकाशे रहसि वा स्थितस्य । तत्र पूर्वमधि-
कृत्याह-
तदनिष्ठसेवा । निन्दिताभ्यासः । ओष्ठनिर्भोगः । पादेन भूमे-
रभिघातः । अविज्ञातविषयस्य संकथा । तद्विज्ञातेष्व विस्मयः कुत्सा
च । दर्पविघातः । अधिकैः सह संवासः । अनपेक्षणम् । समानदो-
घाणां निन्दा । रहसि चावस्थानम् ॥
 
तस्य नायकस्य यदनिष्टं तस्य सेवा कर्तव्या येनायं प्रागेवेयं मम च्छ -
न्दानुवर्तिनी संप्रति कारवादभक्ष (?) विरक्तेति व्यावर्तते । निन्दितं ग-
हिंतं तृणच्छेदलोष्टमर्दनादि तस्याभ्यासः पुनः पुनः करणं तदग्रतः । ये-
नायं ममाशुमं काङ्क्षत इति जानाति । ओष्ठनिर्भोगः तं दृष्ट्वा खमोष्ठं च
क्रोडीकृत्य भयं निष्कासयेत् । पादेन भूमेरभिघातो भूमौ पादास्फालनम् ।
तदुभयं नित्यक्रुद्धताख्यापनार्थम् । अविज्ञातविषयस्य संकथेति यस्मिन्वि-
षये नायकस्य परिज्ञानं नास्ति तस्मिन् तस्य संबन्धिनी शोभनमिदं जाना-
तीति संकथा कर्तव्या यथास्य लोकमध्ये वैलक्ष्यं भवति । विज्ञातेष्वविस्मयो
विरागख्यापनार्थम् । कुत्सा च दुःशिक्षितमस्य । दर्पविघातः शौर्यादिन-
नितदर्पस्यापनयनमन्यं प्रोत्सा । येनायं विलक्षीभवति । अधिकैः सह
संवासो येन तेभ्यो बिभ्यन्न ढौकते । अनपेक्षणमिष्टानिष्टवस्तुप्ववज्ञाख्या-
पनार्थम् । समानदोषाणां निन्दा यथायं तद्वारेण मां कुत्सतीति जानाति ।
रहसि चावस्थानं संकथा वा ।
 
तत्र रतमधिकृत्याह-
रतोपचारेषूद्वेगः । मुखस्यादानम् । जघनस्य रक्षणम् । नखद-
शनक्षतेभ्यो जुगुप्सा । परिष्वङ्गे भुजमय्या सूच्या व्यवधानम् ।
स्तब्धता गात्राणाम् । सक्नोर्व्यत्यासः । निद्रापरत्वं च । श्रान्तमु -
१. 'संराग: '. २. 'सुरतस्य'. ३. 'व्यधनम्'. ४. 'वा'.