2023-02-19 13:59:37 by ambuda-bot
This page has not been fully proofread.
३ अध्याय:]
६ वैशिकमधिकरणम् ।
२२९
योजयति न त्विदमिति । स्वपक्षैरिति मित्रादिभिः सह संज्ञया भाषते न
वचसा । मा श्रौषीदियमिति । मित्रकार्यमपदिश्य मयाद्य कर्तव्यमित्यन्यत्र
शेते नायिकान्तरगृहे । पूर्वसंसृष्टायाश्च नायिकायाः परिजनेन परिचारकेण
सह मिथो रहसि कथयति यत्पूर्ववृत्तं वर्तमाननायिकागतं वा ।
तसिन्विरक्त इति ज्ञातेऽनुष्ठानमाह --
तस्य सारद्रव्याणि भागववोधादन्यापदेशेन हस्ते कुर्वीत । तानि
चास्या हस्तादुत्तमर्णः प्रसहा गृह्णीयात् । विवदमानेन सह धर्मस्थेषु
व्यवहरेदिति विरक्तप्रतिपत्तिः ॥
प्रागवबोधादिति यावदसौ न जानाति ज्ञातोऽहमनया विरक्त इति ।
अन्यथा प्रतिविधानान्तरं चिन्तयेत् । तत्राप्यन्यापदेशेन । यत्किंचिद्याजं
कृत्वेत्यर्थः । तानि चेति सारद्रव्याणि । तस्या (अस्या) इति नायिकाया
हस्तात् । उत्तमर्ण इति तस्मादुत्तमर्णान्नायकार्थमृणमाहृतं (?) गृहीतवती स
तया कृतसंकेतः प्रसह्याभिभूय गृह्णीयात् । विवदमानेनेति मदीयमेतत्त्वं किं
गृह्णासीति विवादं कुर्वता नायकेन सह धर्मस्थेषु प्राडिवाकादिषु च व्यव-
हरेदुत्तमर्णः । यदि तुन विवदेत्सिद्धं कार्यम् । इति विरक्तप्रतिपत्ति-
श्चतुःपञ्चाशं प्रकरणम् ॥
विरक्तस्य स्वयमेव निष्कासितत्वान्न निष्कासनम् । यस्तु सक्तत्वात्स्वयं
न निष्कसति तस्य निष्कासनमा उच्यन्ते । तत्रायं प्रथमः कामो (कल्पो)
यदस्यानुपासनम् । यदाह -
सक्तं तु पूर्वोपकारिणमंप्यल्पफलं व्यलीकेनानुपालयेत् । अ-
सारं तु निष्पतिपत्तिकमुपायतोऽपवाहयेत् । अन्यमवष्टभ्य ॥
अल्पदत्तमपि व्यलीकेनापराधेनानुपालयेत् । तस्य सक्तत्वात् । पूर्व
बहुधा कृतोपकारोऽपि परामिच्छति तदानिष्कासयेदित्यर्थः । असारं नि-
द्रव्यम् । अपवाहयेन्निष्कासयेत् । यद्यपि तदात्वेनापि तथा भविष्यतीति
चेदाह — निष्पतिपत्तिकमिति । निरनुष्ठानमित्यर्थः । ननु रतिफलत्वात्कथं
१. 'तस्य च'. २. 'था'. ३. 'प्रतिगृह्णीयात् '. ४. 'इति विरकप्रतिपत्ति ' इति पुस्त-
कान्तरे नास्ति ५. 'क्रिया: '. ६. 'शक'. ७. 'अल्पफलमप्यलीकेन'.
का० ४२