This page has not been fully proofread.

१ साधारणमधिकरणम् ।
 
अवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेवं । न निष्कर्मणो भद्र-
मस्तीति वात्स्यायनः ॥
 
अवश्यमिति । यतश्चैवं तस्मान्निष्कर्मण उपायानुष्ठानरहितस्य । भद्रं
कल्याणम् । पूर्वजन्मकृतं कर्म निष्फलं प्रसज्येतेति चेत्, न । परस्परापेक्ष-
मुभयं फलतीति द्रष्टव्यम् । यथोक्तम्– 'दैवं मानुषं हि कर्म लोकं पाल-
यति' । एतेन दैवमात्रवादोऽपि प्रत्युक्तः ।
 
२ अध्यायः]
 
यदाह-
२३
 
कामविप्रतिपत्तिमाह -
 
न कामांश्चरेत् । धर्मार्थयोः प्रधानयोरेवमन्येषां च सत प्रत्यनी-
कत्वात् । अनर्थजनसंसर्गमसद्व्यवसायमशौचमनायति चॅते पुरुषस्य
जनयन्ति ।
 
न कामानिति । प्रधानयोरिति । ताभ्यां कामोत्पत्तेः । प्रत्यनीकत्वादि-
ति । कामासक्ततया धर्मस्यानाचरणात्, तद्विलोमाचरणाञ्च । अर्थस्यानर्ज-
नात् । मद्यमाटीपारितोषिकासद्व्ययाद्विरोधवर्ती कामः । सतामिति ।
ज्ञानवृद्धास्तपोवृद्धाः सन्तः कामासक्तं त्यजन्ति । तेषां च प्रत्यनीकवर्ति-
नोऽनर्थजना नटनर्तकगायनादयः । तैः संपर्क जनयन्ति । असद्व्यवसायम-
शोभनव्यवसायं निशीथाभिसरणप्राकारलङ्घनादिकम् । अशौचं यथोक्त-
शौचाकरणात् । अनायतिमप्रभावं कामगर्दम इति ।
 
तथा प्रमादं लाघवममत्ययमग्राह्यतां च ।
 
तथा प्रमादं शरीरोपघातं परदारादिगमनादौ । लाघवं तारल्यं सहसा
प्रवर्तनात् । अप्रत्ययमविश्वासमसत्संगमात् । अमाद्यतां हेयतामपूज्य-
वृत्तित्वात् ।
 
१. 'एव' इति पुस्तकान्तरे नास्ति. २. 'भद्रमिति' पा०. ३. 'धर्मार्थयोरेव प्रधा-
नयोरन्येषाम्' पा०. ४. 'प्रत्यनीकवर्तित्वात्' पा०. ५. 'चैव पुरुषस्यते' पा०.
६. 'आभ्याम्' पा०. ७. 'प्रत्यनीकवर्तित्वादिति' पा०. ८. 'भद्यमास-' पा०.
९. 'दान-' पा०.