This page has not been fully proofread.

३२८
 
कामसूत्रम् । ३१ आदितोऽध्यायः ]
 
टानां विशीर्णानां लाभातिशयेनाधिकेन लामेन पुनः संघाने यतमानानां
यत्नं कुर्वतामाविष्कृतः प्रकटः प्रतिषेधः कर्तव्यः । तथासौ श्रुत्वा मय्यनु -
रक्तेति प्रयच्छति । तत्स्पर्धिनां चेति नायकस्पर्धिनां त्यागयोगिनां निद-
र्शनं प्रणिधिभिः । सभागत्वख्यापनार्थमित्यर्थः । येनायं श्रुत्वा वितरेत् ।
एषा मा भूदिति (?) प्रयच्छति । न पुनरेष्यतीति । न पुनर्गृहमनेनाग-
न्तव्यमिति बालेन प्रयुक्तेन याचितकं कार्यमिदं मे देहीति । बालवद्वा
लज्जां त्यक्त्वा याचितव्यमित्यर्थः । एतेऽर्थागमोपाया देशकालावस्था पे-
क्षया प्रयोक्तव्याः । इत्यर्थागमोपाया स्त्रिपञ्चाशत्तमं प्रकरणम् ॥
 
सक्ताद्वित्तादानमुपायैरुक्तं विरक्ते तु किं प्रतिपद्येतेति विरक्तप्रेतिपत्ति-
रुच्यते । तत्र विरक्तस्य लक्षणमाह -
 
विरक्तं च नियमेव प्रकृतिविक्रियातो विद्यात् सुखवर्णाच ॥
नित्यमेवेति सर्वत्र क्रियासु वर्तमानम् । प्रकृतिविक्रियात इति स्वभा
वान्यथात्वेनेत्यर्थः । अनेनेङ्गितमन्यथावृत्तिलक्षणं दर्शयति । मुखवर्णाच्च
विद्यादित्येव । मुखरागादित्यर्थः । कश्चिदेव मुखरागेऽभिरागं सूचयति
तेनेङ्गिताकाराभ्यां रक्तवद्विरक्तमपि विद्यादित्युक्तम् ।
 
तामन्यथावृत्तिमाह-
ऊनमतिरिक्तं वा ददाति । प्रेतिलोमैः संवध्यते । व्यपदिश्य-
न्यत्करोति । उचितमाच्छिनत्ति । प्रतिज्ञातं विस्मरति । अन्यथा
वा योजयति । स्वपक्षैः संज्ञया भाषते । मिश्रकार्यमपदिश्यान्यत्र
शेते । पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति ॥
 
अतिरिक्तं वा यथादीयमानात् । प्रतिलोमैः संवध्यते नायिकाया वि
पक्षैः सह प्रीति करोति । व्यपदिश्य स्नातव्यमिति अन्यत्करोति सज्जीकृ-
तेऽपि स्नानोपकरणे भुते । उचितमाच्छिनत्ति प्रत्यहं दीयमानं न ददाति ।
प्रतिज्ञातमिदं मया देयमिति विस्मरति मृग्यमाणे न प्रतिज्ञातमित्यन्यथा
 
१. 'त्रिपञ्चाश'. २. 'प्रकृति.'. ३. 'मन. प्रकृतिविक्रियातो मुखवर्णाच्च विद्यात् .
४. मुसवर्णांकृतितच'. ५. 'प्रतिलोमैलोकै.'. ६. 'त्वन्यत्', ७. 'सह मिथ.', ८. 'व्यप-
दिश्यान्यत्'.