This page has not been fully proofread.

३२६
 
कामसूत्रम् ।
 
३१ आदितोऽध्यायः ]
 
त्रानेन प्रयोजनमिति । त्रिग्घोऽयमागतस्तस्य प्रीत्या अवश्यं किंचिद्देय-
मिति तद्व्यपदेशः । तदभिगमनमिति नायकाभिगमननिमित्तं यस्य (?)
रक्षिभिर्दण्डपाशिकैः सहायैः कृतसंवित्तकैश्चौरैर्वा कृतसंवित्कैरलंकारमोक्षः
कार्यः । येनेयमदग्धन्मूल(?) मागच्छन्ती दुःखितेति ज्ञात्वा अन्यमलंकारं
ग (य) च्छति दाहादिति । प्रमादादुत्थितेऽसौ च दग्धमिति नाशः प्र-
काश्यः । न तु खयमादीप्यः । अनेकप्राण्युपघातदोषात् । कुड्यच्छेदा -
दिति चौरैः संघिखातादपहृतमिति नाशः । चौरव्यञ्जनैर्वा कुड्यच्छेदान्नाशः ।
प्रमादादिति । मम मातुर्वा प्रमादागृह एव द्रव्यनाशः । तथेति यथा द्रव्यस्य
दाहादिना नाशः याचितालंकाराणां कार्यवशादन्यतो मार्गितानां नाय-
कालंकाराणां तेन स्थापितानां दाहादिना (नाशे) प्रकाशितेऽवश्यं प्रय-
च्छति स्वकीयं च न मृगयति । प्रणिघिमिरिति परिचारकमुखा ये नायकेन
प्रणिहिता स्तैर्व्ययस्यातिवदनं नायकाग्रतस्त्वाममिगन्तुमस्याः सरकताम्बूला-
दिभिरियान् व्यय उठित (उत्थित) इति । तदर्थमिति नायकनिमित्तव्यया-
र्थम् । ऋणग्रहणं तत्समक्षमित्यर्थात् । जनन्येति । ऋणं किमिति गृह्णासि
कथं त्वया शोधयितव्यमित्यभिधत्या मात्रा सह तदुद्भवस्य नायकसंब-
न्धिनः कृते नात्मीयस्य विवादः कर्तव्यः । किं तव अहमेवात्मानमपि वि-
क्रीय शोधयिष्यामीति । तेन तथाविधं दृष्ट्वावश्यं ददातीत्यर्थः । सुहृत्का-
र्येष्विति नायकमित्रोत्सवादिष्वनभिगमनं कार्ये आहूयमाना न यामि ।
नायकेन गण्यमानाया अपि कारणमाह - अनभिहारहेतोरिति । अभिहार-
मु (उ) पायनं तन्मम नास्तीति । तैश्च पूर्वमाहता इति सुहृद्भिरस्माकमप्यु-
त्सवे महान्तोऽमिहाराः । पूर्वमुपनीता इति नायकस्य । पूर्व श्राविताः स्युः
यावदेव सुहृत्कार्यं न संभवति । पूर्व याचितं हि कार्यकाले प्रयच्छति यदि
न दद्यादवश्यमेव तदानीमनभिगमनम् । उचितानामिति प्रत्यहं शरीर-
स्थित्यर्थं क्रियमाणानां विच्छेदः कार्यः । येनायमिदानीं शरीरस्थितिर-
प्यस्या न संभवतीति प्रयच्छति । नायकार्थं चेति । नायकादर्थो यस्मिन् ।
कार्य शिल्पिपु । निर्देश्यमिति शेषः । अयमुत्कृष्टः शिल्पी कारणकं (?)
बहून्मृगयते तच्च मम नास्ति यदि त्वं प्रयच्छसि कारयेयं नो चेदामविति (?)