This page has not been fully proofread.

२ अध्यायः ]
 
६ वैशिकमधिकरणम् ।
 
गम्यस्याप्यनुवर्तमानस्य वेश्यास्वरूपप्रतिपत्त्यर्थमाह-
भवतश्चात्र श्लोकौ -
 
-
 
सूक्ष्मत्वादतिलोभाच प्रकृत्याज्ञानतस्तथा ।
कामलक्ष्म तु दुर्ज्ञानं स्त्रीणां तद्भावितैरपि ॥
कामयन्ते विरज्यन्ते रञ्जयन्ति सजन्ति च ।
कैर्षयन्त्योऽपि सर्वार्थाज्ञायन्ते नैव योपितः ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे कान्तानु-
वृत्तं द्वितीयोऽध्यायः ।
 
३२३
 
स्त्रीणामिति वेश्याशब्दत्वादिति । चेतोघर्मेणातीन्द्रियत्वाद्वेश्याशब्द-
वाच्यानां वैरिच्छा (?) लक्षणः कामस्तस्य लक्ष्म स्वरूपं दुर्ज्ञानं किमिदं
स्वाभाविकं वा कृत्रिममिति दुःखेन ज्ञायते । कथमित्याह सूक्ष्मत्वा-
दिति चेतोघर्मेणातीन्द्रियत्वात् । क्रियया सुज्ञानमिति चेदाह — अतिलो -
भादिति । लुब्धा हि स्वाभाविकमिव रूपयन्ति प्रवृत्त्या न ज्ञायन्त इति ।
कामपरासु हि विश्वसन्ति पुमांसः । ततश्च तेषां स्वभावत एव रागाचरणसं-
भवादज्ञानमेव प्रादुर्भवति न ज्ञानम् । तद्भावितैरपि लक्ष्मपरिज्ञानाभियुक्तै-
रपि दुर्ज्ञेयं किमिदं स्वाभाविकं कृत्रिमं वेति । तदेवं कृतकं च कामलक्ष्म
दर्शयन्नाह – कामयन्त इति । अकृतकं कामयन्ते तदपि न स्थिरमि-
त्याह—कृतककेलिवशाद्विरज्यन्ते । कृतककेलिवशाद्रजयन्ति । तदपि न
स्थिरमित्याह – त्यजन्तीति । किमर्थमित्याह –कर्षयन्त्योऽपीति । सर्वा-
र्थान् गृह्णन्त्योऽपीत्यर्थः । अलक्तकवन्निष्पीडितसारत्वाज्ज्ञायन्ते नैव किं-
रूपा इति । योषितो वेश्या इत्यर्थः । तस्मात्तासु नासक्किं कुर्यात् । केवलं
यावदर्ये प्रतिधेरन्नित्युपदेशः । इति कान्तानुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानाया विदग्धामनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां वैशिके
षष्ठेऽधिकरणे कान्तानुवृत्तं द्वितीयोऽध्यायः ।
 
१. 'कामलक्षणदुर्ज्ञान'. २. 'रज्यन्ते रमयन्त्यश्च'. ३. 'कर्पयन्त्यपि'.
 
-