This page has not been fully proofread.

३२२
 
कामसूत्रम् ।
 
३० आदितोऽध्यायः ]
 
शुभं स्वप्नं दृष्ट्वा प्रत्यूषे तज्जनसमक्षं प्रकाश्य आस्तां तावदन्यत्तत्समागम
एव ममास्त्विति वचनमुदाहर्तव्यम् । दृष्ट्वापि कृतकमदृष्टं खमं प्रकाश-
येत् । यदि देशान्तरस्थस्य नायकस्याभिप्रेतसिद्धिस्तैस्तैरुपलब्धा स्यात् ।
उद्वेगोऽनिष्ट इति । अशुभसूचके स्वमदर्शने सत्युद्वेगः । तस्य किमप्य-
निष्टमस्तीति शान्तिकर्म ब्राह्मणानाहूय कार्यम् । आगते प्रत्यक्षे वृत्तमाह -
कामेति । त्वत्प्रसादादागत इति कामपूजनम् । देवतोपहाराणां च तज्ज-
नसमक्षं प्रतिपन्नानां करणं निष्पादनम् । पूर्णपात्रस्येति । इष्टवुच्या खज-
नाद्यदुत्तरीयमाच्छिद्य गृह्यते तत्पूर्णपात्रम् । तस्य सखीमिराहरणम् ।
वायसेति । वल्लमे समागते पिण्डं ते दास्यामीति प्रतिज्ञातं गृहाणेति । ना-
यकेन सह यः प्रथमः समागमस्तदनन्तरमेतत्कामपूजादिकमनुष्ठेयम् ।
प्रत्यक्षे परोक्षे च वृत्तमाह -संक्तस्य चेति । अनुमरणं ब्रूयात् खर्याते
न मया जीवितव्यमिति । सक्तो ह्येवं संभावयति नान्यः ।
 
कः पुनः सक्त इत्याह -
 
निसृष्टभावः समानवृत्ति: प्रयोजनकारी निराशङ्को निरपेक्षो-
sर्येष्विति सक्तलक्षणानि ॥
 
निसृष्टभाव इति सर्वात्मना विश्वस्तः । समानवृत्तिस्तावत्प्रवृत्तौ निवृत्तौ
च । प्रयोजनकारी नायिकाया यत्कार्ये तदुदीरितमात्रं यः कर्तुं शक्नोति ।
निराशङ्को न कुतश्चिदाशङ्कते तस्यां प्रवर्तमानः । निरपेक्षोऽर्थेषु आत्मास्य
तया (?) गृह्यमाणेष्वपि ।
 
तदेतन्निदर्शनार्थ दत्तकशासनादुक्तम् । अनुक्तं च लोकैतः
शीलयेत्पुरुषप्रकृतितश्च ॥
 
तदित्युक्तं वृत्तम् । निदर्शनार्थ दत्तकशासनादिति दत्तकशास्त्रं दृष्ट्वा ।
लोकत इति पराराधनकुशलाच्छीलयेदागमयेत् ।
 
१. 'शकस्य'. २. 'विसृष्ट'. ३. 'निरातङ्क'. ४. 'शक्तलक्षणम्'. ५. 'शीलयेल्लो-
कात्पुरुपप्रकृतेय'.