This page has not been fully proofread.

२ अध्यायः ]
 
६ वैशिकमधिकरणम् ।
 
क्ताश्चारत्यादयः संभवन्त्येव किं त्वेतदधिकं विपाद्यशनमिति । आपातमृ-
त्युहेतुं कामयेद्वाचैव न तु क्रियया । प्रत्यायनं च प्रणिधिभिरिति मातु -
रेवास्या दोषो न त्वस्या इति । स्वयं वेति । कुत्सिता वेश्यानां जीविका
यत्स्निग्धं संत्यज्यार्थतृष्णया मातरोऽन्येन योजयन्तीति । न त्वेवेति ।
कामं तदभिगमने विवादः स्यात् नायकेन तु यद्येवं तत्साधयन्त्या जनन्या
न विवादस्तदर्थत्वात्प्रयासस्य । विनाशमात्रं (मात्रां विना) किंचिञ्चेष्टे-
तेति । असौ भोक्तुमपि यदाह माता न कुर्यात् । कार्येषु सैव व्यापार -
यितव्येत्यर्थः ।
 
प्रवासे शीघ्रागमनाय शापदानम् । भोषिते मृजानियमञ्चालं-
कारस्य प्रतिषेधः । मङ्गलं खपेक्ष्यम् । एकं शहवलयं वा घारयेत् ।
स्मरणमतीतानाम् । गमनमीक्षणिकोपश्रुतीनाम् । नक्षत्रचन्द्रसूर्य-
ताराभ्यः स्पृहणम् । इष्टस्वप्नदर्शने तत्संगमो ममास्त्विति वैच-
नम् । उद्वेगोऽनिष्टे शान्तिकर्म च । प्रत्यागते कामपूजा । देवतो-
पहाराणां करणम् । सखीभिः पूर्णपात्रस्याहरणम् । वायसपूजा
च । प्रथमसमागमानन्तरं चैतदेव वायसपूजार्जम् । सक्तस्य चा-
नुमॆरणं ब्रूयात् ॥
 
-
 
प्रवास इति नायकस्य कार्यवशात् । शापदानं शपथदानम् । मज्जी-
वितेन शापितोऽसि यदि शीघ्रं नागच्छसीति । परोक्षे वृत्तमाह - प्रोपित
इति । मृजानियमः शरीरासंस्कृतिः । परोक्षे विफलमिति चेन्न । तदीय-
जनसमक्षे सफलत्वात् । प्रवासचर्यायामुक्तमपि चैतत्प्रायशः कुलयोपित-
स्तत् इदं तु वेश्याया एवेति । प्रतिपेषोऽधारणम् । मङ्गलं शङ्खवल्यादि
त्वपेक्ष्यम् । प्रोषितस्य मङ्गलापेक्षया तावन्मात्रं धार्यमित्यर्थः । सरणमती-
तानां नायकेन सहोपभुक्तानाम् । ईक्षणिका विप्रश्निकास्तासां गमनं गृहे
इत्यर्थात् । उपश्रुतिर्निशीथे शुभाशुभपरिज्ञानार्थ प्रथमवाक्यग्रहणम् । तेन
तस्या रथ्याचत्वरेषु गमनमिति । नक्षत्राढिभिः स्पृहणमिति पुण्यवन्त एते
यन्नायकेन दृश्यन्ते । अहमपुण्या यन्मा नेक्षत इति । इष्टखप्मेति सद्भूतं
१. 'शपथदानम्'. २. 'नृयात्'. ३ 'पूर्णपात्रग्रहणम्'. ४. 'वर्जनम् ' ५. 'सरण'.
 
का० ४१
 
M