2023-02-19 13:59:36 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
३० आदितोऽध्यायः]
शमिन्त्रगुणवयोमाधुर्यपूजा । गीतादिषु चोदनमभिज्ञस्य । भयशी-
तोष्णवर्षाण्यनपेक्ष्य तदभिगमनम् । स एव च मे स्यादित्योर्ध्व-
देहिकेषु वचनम् । तदिष्टरसभावशीलानुवर्तनम् । मूलकर्माभिशङ्का ।
तदभिगमने च जनन्या सह नित्यो विवाद: । बलात्कारेण च य-
धन्यत्र तया नीयेत तदा विषमनशनं शस्त्रं रज्जुमिति कामयेत ।
प्रत्यायनं च प्रणिधिभिर्नायकस्य । स्वयं वात्मनो वृत्तिग्रहणम् ।
न त्वेवार्थेषु विवादः । मात्रा विना किंचिन्न चेष्टेत ।
तद्रूपा गृहीतव्रता स्यात् । विवाद इति । 'कस्मिँधिद्वस्तुनि केनचिद्वि-
प्रतिपत्तौ । तेनाप्यशक्यमिति । 'शक्तश्चेत्स एवेति कथयेदित्यर्थः । खा-
मिनो द्रव्यं नायकसंबन्धि आस्थापनपालनाभ्यामविशेषेण पश्येत् । निर्मा-
ल्यमिति । स्वकीयं माल्यादि मम देयमिति । उच्छिष्टेति । यद्युपनिम-
त्रितो न मां नयसि मुक्तशेषमवश्यं प्रेषयितव्यमिति । कुलशीलेति ।
उदितोदितं कुलमस्य नानुदितमनुदितं वेति । शोभनं शीलं न विषम-
मिति । प्रकृष्टमालेख्यादि शिल्पं नामकृष्टमिति । विशुद्धास्य जातिर्न सं-
कीर्णेति । निर्मलास्यान्वीक्षिक्यादिविद्या न दुर्गृहीतेति । कनकपिञ्जरोऽस्य
वर्णो न पाण्डुरिति । न्यायेनोपार्जितं वित्तं नान्यायेनेति । पूज्योऽस्य देशो
नापूज्य इति । गुणवन्त्यस्य मित्राणि न दोषवन्ति । शोभना गुणा न
त्वशोमनाः । प्रथमं वयो न द्वितीयं न तृतीयमिति । मधुरं बच्चो नामधुरं
चेति पूजा स्तुतिः कर्तव्या । अभिनस्य गीतादौ प्रेरणम् । अनभिज्ञश्चो-
द्यमानो मामुपहसतीत्याशङ्कते। अभिज्ञस्तु मद्विज्ञानं श्लाघत इति मन्यते ।
भयेति । इदमासक्तिख्यापनार्थम् । और्ध्वदैहिकेष्विति । वर्तमानलोकाद-
न्यलोकेऽपि यो देहः स जन्मान्तरे स्यात् । (तत्रापि ) अयमेव मे प्रियः
स्यादिति वचनमुदाहार्यम् । नियतमपि वशीकरणमलीकतया प्रयुद्धे येन तव
विधेयास्मीत्याशङ्का कार्या । तदभिगमन इति । नायकमनुगच्छन्तीं किं
घारयसीति मात्रा सह नित्यं कृतककलहोऽनुरागप्रकटनार्थः । बलात्का-
रेण चेति । अन्यत्र गम्ये कार्यापेक्षया नीयेत मात्रा तदा तत्समक्षं पूर्वो
१. 'प्रत्यानयनं'. २. 'खयमेवेति', 'त्वमेवेति'.
३२०