This page has not been fully proofread.

२२
 
कामसूत्रम् ।
 
२ आदितोऽध्यायः]
 
काल एवेति । हेयोपादेयाः षट्पदार्था लाभालाभादयः । तेषु काल एव
-मूलमिति न त्यागोपादानार्थं स्वयं यत्नमातिष्ठेदित्यर्थः 1
लोकप्रसिद्धिमाह -
 
कालेन वलिरिन्द्रः कृतः । कालेन व्यवरोपितः । काल एव पुं-
नरप्येनं कर्तेति कालकारणिकाः ॥
 
कालेनेति । हेयैप्रकृतिकोऽप्यसुरत्वादनहर्होऽपि शाके पदे प्रेरितः
स्थापितः । व्यवरोपित इति । परिवर्तमानेन तस्मात्पदादपनीय पाताले नि-
योजितः । पुनरप्येनं कर्तेति । विपरिवर्तिष्यमाणः प्रेरयनिन्द्रं करिष्यती-
त्यर्थः । तथा चाहुः—'काल: पचति भूतानि कालः संहरति प्रजाः ।
कालः सुतेषु जागर्ति कालो हि दुरतिक्रमः ॥' कालकारणिका ये काल-
कारणमधीयते । ईश्वरकारणिका अप्येवमेव द्रष्टव्याः । तुल्ययोगक्षेम-
त्वात् ।
 
अत्र संप्रतिपत्तिमाह -
 
पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनामुपाय: प्रत्ययः ॥
पुरुषकारपूर्वकत्वादिति । कालादुपायतो वार्थसिद्ध्यै तदर्थिनो याः प्रवृ-
तयस्ताः सर्वाः पुरुषकारपूर्विका द्रष्टव्याः । उभयत्रापि पुरुषकारस्य व्या-
प्रियमाणत्वात् । पुरुषकारथोपायं विना नौथै साधयतीत्युपायः प्रत्ययः ।
कारणमँर्थसिद्धेरित्यर्थः । यथैव हि पुरुषकारोऽर्थसिद्धौ कालमपेक्षते तथा श-
क्तिदेशसाँघनान्युपायमपेक्षन्ते । तेषु सर्वेष्वसत्सु कालस्याकिंचित्करत्वात् ।
असति काले तेषामसामर्थ्यात् । तस्माच्छक्तिदेशकालसाघनानि परस्परा-
पेक्षाणि कार्यस्य साधकानीति तान्येवोपायः । तत्र शक्त्यादिषु पुरुषका-
रादर्थसिद्धिः । अनन्तगुणेषु त्ववश्यमेव कदाचित्स्याद्यादृच्छिकी कस्यचि-
दर्थसिद्धिः । सापि यादृच्छिकमेवोपायमाश्रित्य ।
 
१. 'इत्यथै लोकप्रसिद्धिमाह' पा०. २. 'पुनरेनम्' पा०० ३. 'अहंप्रकृतोऽपि '
• पा०. ४. 'अप्यत्रैव' पा०. ५. 'नार्थसिद्धिम्' पा०. ६. 'सोऽर्थसिद्धेः' पा०. ७. सा-
धनान्यप्युपायम्' पा०. ८. 'तेषु सत्यु' पा०. ९. 'कार्यसाधकानि' पा०.
 
·
 

 
1
 
1