This page has not been fully proofread.

कामसूत्रम् । ३० आदितोऽध्यायः]
सामर्थ्यमायुपस्तदवासौ । तस्यार्थाघिगैमेऽभिप्रेतसिद्धौ शरीरोपचये
वा पूर्वसंभाषित इष्टदेवतोपहारः । नित्यमलंकारयोगः । परिमितो-
sभ्यवहारः । गीते च नामगोत्रयोर्ब्रहणम् । ग्लान्यामुरसि ललाटे
च करं कुर्वीत । तत्सुखमुपलभ्य निद्रालाभः । उत्सहे चास्योपवेशनं
स्वपनं॑ च । गमनं वियोगे । तस्मात्पुत्रार्थिनी स्यात् । आयुषो ना-
धिक्यमिच्छेत् ॥
 
३१८
 
अनुरागस्येति जातरागास्मि कामयख मामिति न वाच्यम् । लज्जापरि-
हारायै कामातुरा तिष्ठेदित्याह - आकारत इति । तत्राप्यपरिज्ञाने मद-
खप्नादिपु निर्वचनम् कृतकसुता यदागत्य (१) व्याधिमपदिशेत् । असं-
भोगेनैव व्याधितास्मीति । श्राध्यानामिति लाघनीयानां देवकुलतडागादीनां
धर्मयशोर्यानां निर्वचनं साधु कृतमिति । तस्मिन्निति नायक इत्यर्थः । वा-
क्यार्थग्रहणम् । अवघीरणेऽवज्ञा संभाव्ये तेत्यर्थः । न केवलमर्थग्रहणं प्र-
शंसा कर्तव्या सुभाषितमुक्तं को नाम जानात्येवमभिधातुमिति । विषये
भाषणं शब्दस्पर्शादिषूक्तिः कर्तव्या कस्मिन्विषये रुचिरिति ज्ञापनार्थम्
तथैवानुतिष्ठेत् । वाक्यस्योत्तरेण योजनं बुद्धिवैदग्ध्यख्यापनार्थम् । तत्रापि
यदि भक्तिमांश्चेत् यदि स्नेहवान् । अजातस्नेहस्य वचने प्रत्युतावधीर्य-
माणं वैलक्षण्यं (धीरणं वैलक्ष्यं ) स्यात् । कथास्वनुवृत्तिस्तेन कथ्यमाना-
खनुवर्तनम् । तन्मुखावलोकन हुंकाराभ्याम् । अन्यथास्या अवज्ञेति म-
न्येत । अन्यत्रेति सपत्न्याः । सपत्नीकथायामीर्ष्याकोपख्यापनार्थं नानु-
वृत्तिः । निःश्वासे दीर्घनिःश्वसिते स्खलितेऽर्थविस्मरणे आर्तिमाशंसीत मा
भूत्पीडेति । तेषामनिष्टसूचकत्वात् । क्षुतं छिक्का । तदादिषु जीवे -
त्युक्तिः स्नेहसूचिका । दौर्मनस्य इति नायकसंवन्ध्यनिष्टश्श्रवणाद्दौर्मनस्ये
नाते तत्कारणं पृच्छेत् । चिरानुबन्धो मे व्याधिः शत्रुर्वाधत इति । गु
णतः परस्याकीर्तनम् अन्यथान्यासक्तेति जानीयात् । समानदोषस्येति ना-

 
१. 'नास्तिक्यमायुषोऽधिगच्छेत्तदवाप्तौ साफल्यं तु. २. 'भिगमने'. ३. 'संभाषितो
देवतोपहार:'. ४. 'तस्मात्पुत्रार्थिनी स्वागमने च बियोगे नायुष आधिक्यमिच्छेद.
५. 'सामान्य'.