2023-02-19 13:59:35 by ambuda-bot
This page has not been fully proofread.
२ अध्यायः]
वैशिकमधिकरणम् ।
३१७
रतिः । तमेनु हर्षशोकौ । स्त्रीपु जिज्ञासा । कोपश्चादीर्घः । स्वकृ-
तेष्वपि नखदशनचिद्वेष्वन्याशङ्का ॥
प्रेक्षणमित्यन्यचित्तं पश्येत् । किमयमुत्कण्ठयोद्वेगाद्वान्यमनस्क इति रा-
जमार्गे वर्तमानस्य प्रेक्षणम् । तत्रापि प्रासादस्थायाः । कर्त्रर्थेयं षष्ठी ।
तत्रेति प्रेक्षणे विदिताया नायकस्य मम पश्यतीति व्रीडा लज्जा स्यात् । सैव
शाठ्यनाश इत्युच्यते । तद्धेतुत्वादस्याः । यदि ब्रीडां दर्शयेत् कृतकस्ने -
होऽस्याः यन्मामसकृत्पश्यतीति शाठ्यं संभाव्येत । तद्वेष्येत्यादिनानुलोम्यं
ख्यापितं भवति । तद्रम्य इति यद्यसावसंप्रयोगशीलस्तदा रम्ये प्रदेशे-
ऽनया घू(र)तिः कार्या । येन तद्गतस्य संप्रयोगेच्छा भवति । स्त्रीपु जि-
ज्ञासा अन्यास स्त्रीषु किमस्य स्नेहोऽस्ति न वेति चरप्रणिधानेन जिज्ञासा
कार्या । (किमेवं स्यादित्याह—–—संप्रयोगेच्छा भवति ।) कोपश्चादीर्घः
यदि तत्र स्नेह ईर्ष्या तदा कोपः स्नेहख्यापनाथै कार्यः । स चादीर्घः कदा-
चिद्विरागः स्यात् । स्वकृतेष्वपीति एतदपीर्ष्याख्यापनार्थ नेहनिर्बन्ध-
सूचनम् ।
अनुरागस्यावचनमाकारतस्तु दर्शयेत् । मदस्वप्नव्याधिषु तु
निर्वचनम् । श्लाघ्यानां नायककर्मणां च । तस्मिन्ब्रुवाणे वाक्या-
र्थग्रहणम् । तदवघार्य प्रशंसाविषये भाषणम् । तद्वाक्यस्य चोत्तरेण
योजनम् । भक्तिमांचेत् । कथास्वनुवृत्तिरन्यत्र सपत्न्याः । निः-
श्वासे जृम्भिते स्खलिते पैतिते वा तस्य चार्तिमाशंसीत । श्रुतव्या-
हृतविस्मितेषु जीवेत्युदाहरणम् । दौर्मनस्ये व्याधिदौर्हदापदेशः ।
गुणतः परस्याकीर्तनम् । न निन्दा समानदोषस्य । दत्तस्य धार-
णम् । वृथापराघे तव्यसने वालंकारस्याग्रहणमभोजनं च । तधु-
काय विलापाः । तेन सह देशमोक्षं रोचयेद्राजनि निष्क्रयं च ।
१. 'उन्मनसो वा शोकहर्षाभ्या शोकहर्षी'. २. 'अन्यशङ्का'. ३०. 'नीडिता'. ४. 'प-
तिते भिन्ने वा तस्यानांत'. ५. 'दौर्हृदस्य'. ६. 'स्मरणम् । स्वयं कृतेऽपराधे भय तत्कृते
पीडां दर्शयेत् । राजोपरोधे व्याध्युपरोघे तथ्यसने चालकारस्याग्रहणम्.' ७. 'यथा',
'व्यथा'. ८. 'मोक्षण'.