This page has not been fully proofread.

कामसूत्रम् ।
 
३० आदितोऽध्यायः ]
 
हणम् । शिरोर्तिमुदरशूलं च । अनित्यमस्थायिनम् । अस्मिन्ख्यापिते किं
फलमित्याह -सतीति । कारणे कारणान्तराभिगमने । तदपदेशं व्याध्यप-
देशम् । अनभिगमने च व्याधिपीडाख्यापनायें विधिमाह–निर्माल्यस्य
चेति कृते इत्यध्याहार्यम् । नायिकेत्युक्ते न माता चेटिकां प्रेषयेत् । अ-
नेनापि सुखं स्थास्यामीत्युक्त्वा ताम्बूलस्योपयुक्तस्य वा कृते ।
 

 
व्यवाये तदुपचारेषु विस्मयचतुःषष्ट्यां शिष्यत्वं तदुपदिष्टानां
च योगानामाभीक्ष्ण्येनांनुयोगस्तैत्सात्म्याद्रहसि वृत्तिर्मनोरथाना-
माख्यानं गुह्यानां वैकृतप्रच्छादनं शयने परावृत्तस्यानुपेक्षणमानु-
लोम्यं गुह्यस्पर्शने सुप्तस्य चुम्वनमालिङ्गनं च ॥
 
व्यवाये मैथुने नायकसंबन्धिनि । तदुपचारेषु मैथुनोपचारेषु सरकता -
म्बूलादिभिः(षु) विस्मयो न तु भूतपूर्वं सर्वमेतदिति । चतुःषष्टयां पा-
चालिक्यां शिष्यत्वं तद्विज्ञाय (?) कर्तव्यं शिक्षय मामिति । योगाना -
मिति चातुःषष्टिकानां तेनोपदिष्टानामाभीक्ष्ण्येनानुयोगः । पश्चात्तस्मिन्नेव
नायके पुनःपुनर्योज्या इत्यर्थः । येनावगच्छेदमत्सुखार्थमेवास्या यत्न इति ।
तत्सात्म्यादिति । यथा तस्य सुखं तथैकान्ते वर्तत इत्यर्थः । मनोरथेति ।
रहसीत्यनुवर्तते । मम मनोरथा एवमासन् कदा त्वया सह दीर्घरजन्यां
सपरिहासः संप्रयोगः स्यात् । गुयानामिति कक्षोरुजघनानां यद्वैकृतं वै-
रूप्यं किंचित्तस्य प्रच्छादनम् । स्प्रष्टुं न ददातीत्यर्थः । मा भूद्वैराग्यम-
स्येति । शयने परावृत्तस्यानुपेक्षणम् । स्नेहव्यापनार्थमभिमुखं खपेदि-
त्यर्थः । गुह्यस्पर्शने आनुलोम्यं कक्षां वराङ्गं च स्पृशन्तं न वारयेत् । मा
भूत्संप्रयोगेच्छाविघात इति । सुप्तस्य चुम्बनमालिङ्गनं च येन नेहात्स्व -
सुमपि न ददातीति जानीयात् ।
 
वृत्तं च प्रत्यक्षे परोक्षे वेति प्रत्यक्ष एव बहिर्गतं वृत्तमाह -
प्रेक्षणमन्यमनस्कस्य । राजमार्गे च प्रासादस्थायास्तत्र विदिताया
ब्रीडाशाव्यनाशः । तद्वेष्ये द्वेष्यता । तत्मिये प्रियता । तद्रम्ये
१. 'प्रयोग.' २. 'तस्य सात्म्यप्रयोगात्'. ३. 'वैकृताना'.