This page has not been fully proofread.

२ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
द्वितीयोऽध्यायः ।
 
३१५
 
उक्तमपि संबन्धं स्पष्टीकुर्वन्नाह -
 
संयुक्ता नायकेन तद्रञ्जनार्यमेकचारिणीदृत्तमनुतिष्ठेत् । रञ्ज-
येन तु सज्जेत सक्तवच विचेष्टेतेति संक्षेपोक्तिः । मातरि च क्रूर-
शीलायामर्थपरायां चायत्ता स्यात् । तदभावे मातृकायाम् । सा तु
गम्येन नातिप्रीयेत । प्रसय च दुहितरमानयेत् । तत्र तु नायि-
कायाः संततमरतिर्निवेंदो व्रीडाभयं च । न त्वेव शासनातिवृत्तिः ।
व्याधि चैकमनिमित्तमजुगुप्सितमचक्षुर्ग्राह्यमनित्यं
सतिकारणे तेदपदेशं च नायकानभिगमनम् । निर्माल्यस्य तु ना -
यिका चेटिकां प्रेषयेत्ताम्बूलस्य च ॥
 


 
ख्यापयेत् ।
 
तु
 
एकचारिणीवृत्तमनुतिष्ठेद्यद्येकचारिणी स्यात् । तथा चोक्तं प्राक् -
'वेश्या चाप्येकचारिणी' इति । यदा तु नैकचारिणी तदा कान्तानुवृत्त-
मुच्यते । संप्रयुक्तस्य गम्यस्य कान्तत्वात् । तच्च संक्षेपेण विस्तरेण च ।
तत्र पूर्वमुद्घाटिततद्धीना (?) माह - रञ्जयेदिति । सक्तमिवात्मानं प्रका-
शयेदित्यर्थः । विस्तारात्तमपि । प्रथमं परतन्त्रा स्यात् । व्याधिं चात्मनः
प्रकाशयेत् । मा भूत्कार्यहानिरित्याह – मातरीति । आयत्ता स्यान्न वच-
नमतिक्रमेदित्यर्थः । मातृकायां कृतकमातरि । सात्विति सत्या कृतका वा
नातिप्रीयेत नातिनिह्येत । अयमप्युद्देशः । यदि प्रीयेत कार्यमेव हन्या-
दित्यर्थः । अप्रीयमाणाया व्यापारमाह–प्रसह्य च दुहितरमानयेदिति ।
गम्यमभिभूय कार्यवशाद्गम्यान्तरं नयेदित्यर्थः । तत्र त्विति तस्मिन्गमने
सति । नायिकायाः कालविशुद्ध्यर्थमाह -- संततमिति । अरतिरसुखं रम्ये-
ऽपि स्यात् । निर्वेदो निर्विण्णता । ब्रीडा कथं मया द्रष्टव्य इति । भयं किं
मयि प्रतिविधास्यतीति । नत्वेवेति । काममरत्यादयः स्युर्न पुनराज्ञामति-
क्रमेदित्यर्थः । व्याधिं चेति । किंविशिष्टमित्याह -- एकमित्यनन्यं ख्या-
पयेत् । कृतको ज्ञायते । अनिमित्तमाकस्मिकम् । अनिन्द्यमजुगुप्सितम् ।
निन्दिते ह्यनभिगमनीया स्यात् । अचक्षुरिति । इन्द्रियोपलक्षणार्थं चक्षुर्म-
१. 'भयं ब्रीडा'. २. 'तदपदेशेन च'.
 
-