This page has not been fully proofread.

३१४
 
कामसूत्रम् ।
 
२९ आदितोऽध्यायः ]
 
ज्ञानार्थ सह ढौकनिकया प्रेषयेत् । तत्राप्यमीक्ष्णम् अन्तरा नायकप्रवेशो
माभूदिति । सपीठमर्दायाश्चेति । पीठमों हि मन्त्री संप्रयोगस्य घट-
यिता । कारणापदेशेन गमनमिति सहसा गमने हि हेया स्यात् ।
उक्तमनुकं श्लोकैराह-
भ॑वन्ति चात्र श्लोका:-
ताम्बूलानि सेजचैव संस्कृतं चानुलेपनम् ।
आगतस्याहरेत्मीत्या कलागोष्ठीच योजयेत् ॥
द्रव्याणि मैणये दद्यात्कुर्याच्च परिवर्तनम् ।
संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत् ॥
प्रीतिदायैरुपन्यासैरुपचारैश्च केवलैः ।
गम्येन सह संसृष्टा रञ्जयेत्तं ततः परम् ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे सहायगम्यागम्य-
चिन्ता गमनकारणं गम्योपावर्तनं प्रथमोऽध्यायः ।
 
संस्कृतमिति सर्वत्र योज्यम् । कलागोष्ठीश्चेति चशब्दात्काव्यगोष्ठी च ।
द्रव्याणीति प्रीतिकौतुकजनकानि । परिवर्तनमुत्तरीयांशुकानामङ्गुलीया-
नाम् । तत्रापि प्रणये सति । अनुत्पन्नप्रणयाया दानं परिवर्तनं च कपटं
ज्ञायते । आकूतमभिप्रायम् । प्रयोजयेत्प्रकाशयेत् । यस्तु कथंचिदागत्या-
गत्य गच्छति यत्र योज्यमानं लाघवं जनयति तच्च कथं योजयेदित्याह-
प्रीतिदायैरिति । प्रीत्यर्थं यानि दीयन्ते । उपन्यासैः पीठमर्दादिकृतैः । अ-
त्रैव किं न सुप्यत इति । केवलैः शुद्धैः ये संप्रयोगमेव सूचयन्ति । सं-
सृष्टा संप्रयुक्ता । ततः परमित्यनन्तरप्रकरणानुसंधानम् । इति गम्योपा-
वर्तनमेकपञ्चाशत्तमं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकात रेण
गुरुदत्तेन्द्रपादामिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां वैशिके षष्ठेऽधिकरणे
सहायगम्यागम्यचिन्ता गमनकारणं गम्योपावर्तनं प्रथमोऽध्यायः ।
 
३. 'प्रणयात्'.
 
१. 'भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे नास्ति. २. 'सज'.
४. 'निजे भावे'.