This page has not been fully proofread.

१ अध्याय:]
 
६ वैशिकमधिकरणम् ।
 
३१३
 
जिज्ञासनमिति । नायकस्येति गम्यसंज्ञकस्य । शुचिसमुदाचारान् शौचं
भावम् । तद्विपरीतमशौचम् । यतः कश्चित्स्वयं ममोपरि कष्टं प्रयुद्धे प्र
योजयति नोभयं वेति । रागः संयोगेच्छा तद्विपरीतमपरागम् । नततां
चक्ष्यमाणलक्षणां तद्विपरीतामशक्तताम् । दानं दातृत्वं तद्विपरीतमदानम् ।
संभावितेन चेति भावान् ज्ञात्वा प्रवर्तते । विटपुरोगामिति विटो हि जी-
र्णनागरकवृत्तः । तेन पूर्वप्रणिहितेन प्रीतिं योजयेत् ।
योजितायां विधिमाह -
 
लावकक्कुक्कुटमेषयुद्धशुकशारिकामलापन प्रेक्षणककैलाव्यपदेशेन
पीठमर्दो नायकं तस्या उदवसितमानयेत् । तां वा तस्य । आग-
तस्य प्रीतिकौतुकजननं किंचिद्रव्यजातं स्वयमिदमसाधारणोपभो-
ग्यमिति भीतिदायं दद्यात् । यत्र च रमते तया गोष्ठचैनसुपचा-
रैश्च रञ्जयेत् ॥
 
लावकादीनां युद्धं शुकादिप्रलापनम् । प्रेक्षणकं नटादिदर्शनम् । कला
गीतादिका । उदवसितं गृहम् । तां वेति नायिकां वा तस्योदवसितम् ।
तद्व्यपेति (?) । यत्मीतिं जनयति तस्मै हितत्वात् । कौतुकं चादृष्टपूर्व-
त्वात् । द्रव्यमेव द्रव्यजातम् । खयमित्यनुरागख्यापनार्थं नान्येन । असा-
धारणेति भवत एवेदमुपभोगाहै नान्यस्येत्युक्त्वा प्रीतिदायं यत्पु[न]र्दीयते ।
यत्र चेति काव्यगोष्ठ्यां कलागोष्ठयां वा । उपचारैः स्रक्ताम्बूलादिभिः ।
प्रत्यवच्छेदनार्थ विधिमाह -
 
गते च सपरिहासमैलापां सोपायनां परिचारिकामभीक्ष्णं प्रेप-
येत् । सपीठमर्दायाच कारणापदेशेन स्वयं गमनमिति गम्योपा-
वर्तनम् ॥
 
सपरिहासेति सक्रीडप्रकृष्टालापा हि प्रीतिं वर्धयति । सोपायनामभि-
१. 'जनयेत्'. २. 'कलापदेशेन च'. ३. 'पत्युर्दीयते'. ४. 'प्रायन्सोपायनांध परि-
चारकान्●
 
का० ४०