This page has not been fully proofread.

३१०
 
कामसूत्रम् ।
 
२९ आदितोऽध्यायः]
 
तेषु (गुणेषु) नायकसंबन्धिष्वनुरक्ता न तथार्थेषु तदीयेषु । प्रीतिसंयो-
गशीलेति प्रीतिग्रहणं बाह्यसंयोगनिवृत्त्यर्थम् । रतिसंभोगशीलेत्यर्थः ।
स्थिरमतिः कर्तव्यमिति निश्चित्यार्थान्करोति । एकजातीयेत्येकप्रकारा न
मायाविनी । विशेषार्थिनी न यत्रक्वचनवस्तुनि रमते । अकदर्यवृत्तिरात्म-
वृत्त्यनुरोघेनार्थसंचयः । तत्रापि न कदाचिदित्याह --नित्यमिति । गो-
ष्ठीकलाप्रियेति गोष्ठी या क्रीडामात्रैककार्या । नायिकाया गुणा इति
योज्यम् । अत्रापि पूर्ववद्वेश्याया इति नोक्तम् ।
 
एतद्दूयोरप्यसाधारणतामाह -
 
m
 
नायिका पुनर्बुद्धिशीलाचार आर्जवं कृतज्ञता दीर्घदूरदर्शिवं
अविसंवादिता देशकालज्ञता नागरकता दैन्यातिहासपैशुन्यपरि-
वादक्रोषलोभस्तम्भचापलवर्जनं पूर्वाभिभाषिता कामसूत्रकौशलं
तदनविद्यासु चेति साधारणगुणाः । गुणविपर्यये दोषाः ॥
 
बुद्धिः प्रज्ञा । शीलं स्वभावता (१) । आचारो देशे काले चेदं प्रयु-
ज्यत इति । नागरकता नागरकृवृत्तानुष्ठानम् । दैन्यं याच्चा । अतिहासो
नित्यप्रहसनता । प्रैशुन्यं परस्परसंमेदनम् । परिवादः परदोषोदाहरणम् ।
चापलमघैर्यम् । वर्जनं त्यागः । तेन गुणा एवोक्ता दैन्यादयः । पूर्वाभि-
भाषिता यावदेव परो न संभाषते । कामसूत्रे कौशलं ज्ञानम् । अत्र न
गुणिद्वारेण गुणाभिधानम् । साधारणादन्यतरत्वादन्यलिङ्गनिदर्शनेन हि
गुणाभिधाने साधारणानां विपर्यये दोषादौ कुलेय (?) त्वादयो वैरूप्यादयो
दौर्बुच्यादयश्च । तद्योगान्नायकोऽप्यनायक इत्युच्यते । सत्खपि गुणेषु
दोषान्तरयोगादगम्या इति ।
 
अगम्यचिन्तामाह -
 
क्षयी रोगी कृमिशकद्वायसास्यः प्रियकलत्रः परुषवाकदर्यो
निर्घृणो गुरुजनपरित्यक्तः स्तेनो दम्भशीलो मुलकर्मणि प्रसक्तो
मानापमानयोरनपेक्षी द्वेष्यैरप्यर्थहार्यो विलज्ज इत्यगम्याः ॥
 
१. 'नायिका पुनः' मूलपुस्तकेषु नास्ति २. 'बुद्धिः शीलं'. ३. 'स्मितपूर्वाभि
४. 'अप्यहार्योऽतिलज:'.
 
A