This page has not been fully proofread.

१ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३०९
 
प्रगल्भो विविधशिल्पज्ञो वृद्धदर्शी स्थूललक्षो महोत्साहो दृढभक्ति-
रनसूयकस्त्यागी मित्रवत्सलो घटागोष्ठीप्रेक्षणकसमाजसमस्याक्री-
डनशीलो नीरुजोऽव्यङ्गशरीर: भाणवानमद्यपो वृपो मैत्रः स्त्रीणां
प्रणेता लालयिता च । न चासां वशगः स्वतन्त्रवृत्तिरनिष्ठुरोऽनी-
र्ष्यालुरनवशङ्की चेति नायकगुणाः ॥
 

 
विद्वानान्वीक्षिक्यादिज्ञः । सर्वेति पापण्डसमयपरिज्ञानात् । कविः
संस्कृतादिकाव्यकृत् । प्रगल्भः प्रतिभाववान् । शिल्पं लेख्यादि । वृद्धदर्शी
विद्यावयोवृद्धानामुपासकः । स्थूललक्षो महेच्छः । महोत्साह इति महत्त्वं
च योगान्तरमहत्त्वयोगात् । यथोक्तम् – 'शौर्यममर्षता शीघ्रता दाक्ष्यं
चोत्साहगुणाः ।" घटागोष्ठचौ व्याख्याते । प्रेक्षणकं नटादिदर्शनम् ।
समाज: पानगोष्ठी । समस्याक्रीडा संभूय क्रीडा । अव्यङ्गमहीनम् । प्राणो
बलम् । अमद्यपो ब्राह्मणोऽर्थाल्लभ्यते । वृषो व्यवायक्षमः । मैत्रः करुणा-
वान् । प्रणयित्व (प्रणेतृत्व) मुपदेशेन तासां समुदाचारेषु स्थापनम् । लालनं
तासां शरीरस्थितिवैकल्यसंवरणम् । अनवशङ्की निःशङ्कमारम्भवान् ।
नायकगुणा इति गुणिद्वारेण गुणाभिधानमत्र प्रकरणायत्तत्वात् । गम्य-
गुणा इति वक्तव्ये नायकग्रहणं सामान्यसंज्ञाप्रतिपत्त्यर्थ तच्च पूर्वोक्तं
गुणा वक्ष्यन्त इति तद्व्याख्यातम् । भवत्येक्षयेव (१) नायको गुणान्तर-
योगात् । कन्यापुनर्भूपरदारवेश्यापेक्षया यथाक्रमं वरो जारः सिद्धो गम्य-
चेति संज्ञान्तरं लभते ।
 
नायिकायाः पुना रूपयौवनलक्षणमाधुर्ययोगिनी गुणेष्वँनुरक्ता
न तथार्थेषु प्रीतिसंयोगशीला स्थिरमतिरेकजातीया विशेषार्थिनी
नित्यमकदर्यवृत्तिर्गोष्ठीकलाप्रिया चेति [नायिकागुणा:] ॥
 
नायिकायाः पुनरिति । रूपं वर्णसंस्थानं यच्छोभनम् । लक्षणं सौ-
भाग्यसूचकम् । माधुर्यै प्रियवाक्यत्वम् । तैर्योगः स यस्यास्तद्योगिनीति ।
 
१. 'वृद्धसेवी'. २. 'प्रमाणवान्प्राणवान्'. ३. 'स्वतन्त्रवृत्तिरनिष्ठुरो युवतिध्वनभि-
शङ्की अनीर्ष्यालुगोंष्ठी कलाप्रिय इति नायकगुणम् . ४. 'नायिकायाः पुन.' इति मूलपु-
स्तकेषु नास्ति, ५. 'अभिरता'. ६. 'संभोग.'