This page has not been fully proofread.

१ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३०७
 
श्यमाना नातिविवृता प्रकटा । पण्यसधर्मत्वादिति । अतिप्रकटस्यादु-
र्लभत्वादित्यर्थः ।
 
तत्र सहायचिन्तामाह -
 
यैर्नायकमावर्जयेदन्याभ्यश्चावच्छिन्द्यादात्मनश्चानयै प्रतिकुर्या-
दर्ये च साधयेन्न च गम्यैः परिभूयेत तान्सहायान्कुर्यात् । ते त्वार-
क्षकपुरुषा धर्माधिकरणस्था दैवज्ञा विक्रान्ताः शूराः समानविद्याः
कलाग्राहिणः पीठमर्दविटविदूपकमालाकारगान्धिकशौण्डिकरजक-
नापितभिक्षुकास्ते च ते च कार्ययोगात् ॥
 
आवर्जयेदमिमुखीकुर्यात् । अवच्छिन्यात्संसृष्टमाकर्षयेत् । सहायान्कु -
र्याद्यथोक्तकार्यसाधकानित्यर्थः । आरक्षका नागरकादयः । धर्माधिकर-
णस्थाः प्राड्ढिवाकादयः । उभयेऽप्यनर्थघातिनोऽर्थसाधकाः । दैवज्ञा
इति । तया संयोगे ते वृद्धिर्भविष्यतीति गम्यं प्रोत्साह्य योजयन्ति । वि-
क्रान्ताः शरीरापेक्षाः साहसिकाः । ततोऽन्ये शूराः । उभयेऽनर्थ मन्त्यर्थं
च साधयन्ति । समानविद्या इति । ते स्त्रियन्तोऽस्यास्त्वर्थे साधयन्ति ।
कलेति । ये नायिकातः कलां गृह्णन्ति ते तद्विज्ञतां प्रकाशयन्तो गम्यान्यो-
जयन्ति । पीठमर्दादयः स्वकर्मभिरर्थकृतः परभवनप्रवेशाद्गम्यं योजयन्ति ।
कश्चिदेव किंचित्कार्यं साधयतीति तद्वशादन्येऽपि स्युः । सहायाः प्रिय-
हिताभ्यामनुवर्तनीयाः न त्वभिगम्याः । तदभिगमने स्वार्थमेवैते कुर्युर्न
तदर्थम् ।
 
गम्यचिन्तामाह -
 
केवलार्थास्त्वमी गम्याः - स्वतन्त्रः पूर्वे वयसि वर्तमानो वि-
त्तवानपरोक्षवृत्तिरधिकरणवानकृच्छ्राधिगतवित्तः । संधैर्पवान्संत-
तायः सुभगमानी श्लाघनकः पण्डकच पुंशब्दार्थी । समानस्पर्धी
स्वभावतस्त्यागी । राजनि महामात्रे वा सिद्धो दैवप्रमाणो वित्ता-
१. 'परिभूयेत याननुसत्य. २. 'मालाकार' इति पुस्तकान्तरे नास्ति. ३. 'भिक्षवस्ते
ते च'. ४. 'केवलार्थैः'. ५. 'सघर्षित:'. ६. 'समस्पर्धी स्वभावतथ'.