This page has not been fully proofread.

३०४
 
कामसूत्रम् ।
 
२८ आदितोऽध्यायः]
 
कदाचिद्विमकृष्टस्य नाधिगम्येत भेषजम् ॥ तस्माद्विनाशकारणान्येव निरू-
प्यन्ते येभ्यो व्यावर्तन्ते । तान्याह-
अतिगोष्ठी निरङ्कुशत्वं भर्तुः स्वैरता पुरुपैः सहानियन्त्रणता ।
प्रवासेऽवस्थानं विदेशे निवासः स्ववृत्त्युपघातः खैरिणीसंसर्गः
पत्युरीर्ष्यालुता चेति स्त्रीणां विनाशकारणानि ॥
 
अतिगोष्ठी स्त्रीभिः सह गोष्ठी । भर्तुः खैरता भर्त्रा खातन्त्र्येण व्यव-
हारिता । पुरुपैः कैश्चिदनियन्त्रणा नियन्त्रणाभावः । प्रवासेऽवस्थानं भर्त-
र प्रोषिते यदेकाकिन्यावस्थातव्यम् । स्ववृत्त्युपघातः खशरीरस्थित्युपघातः ।
स्वैरिण्याः पुंश्चल्याः संसर्गः । पत्यावीसंभव इति विनाशकारणानि ।
एषु सत्सु परदाराभिमर्शयोगसंभवात् ।
अधिकरणार्थमुपसंहरन्नाह
 
'संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान् ।
न याति च्छलनां कथिदारान्यति शास्त्रवित ॥
पाक्षिकत्वात्प्रयोगाणामपायानां च दर्शनात् ।
धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ॥
तदेतहारगुत्यर्थमारब्धं श्रेयसे नृणाम् ।
प्रजानां दूपणायैव न विज्ञेयोऽस्य संविधिः ॥'
 
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे
आन्तःपुरिकं दाररक्षितकं पष्ठोऽध्यायः ।
 
पारद्वारिकलक्षितानिति पारदारिकेऽधिकरणे ये प्रोक्तास्तैर्लक्षितान् ।
अन्यथा कथमतः (१) शास्त्रतः पश्येत् । पाक्षिकत्वादिति यदान्यकारणानि
पश्येत् । अपायानां च शरीरोपघातादीनाम् । वैलोम्यादिति विपक्षत्वात् ।
परदारप्रयोजनप्रयोगं नाचरेदिति । तर्हि किमर्थं तदधिकरणमुक्तमिति चे-
·
 
१. 'निरूप्याणि'. २ 'यदाह'. ३. 'खेरिता'. ४. 'प्रकाशे स्थाने विढेशवासः'.
५. 'सान्दागन्'.