This page has not been fully proofread.

६ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
३०३
 
एभ्य एवेति तथासिद्धपुरुषेभ्यः । यैश्च द्वारदेशावस्थानादिमिः कारणै-
रभियोगमात्रसाध्यत्वं यानि च परिचयकारणानि अभियोगदूतीकर्माणि ई-
श्वरकामितमन्तः पुरिकावृत्तं च तेभ्यो रक्षेत् । तत्रायं प्रथमोपायो यद्रक्षा-
निवेशनम् । यदाह-
कामोपधाशुद्धान्रक्षिणोऽन्तःपुरे स्थापयेदिखाचार्याः । ते हि
भयेन चार्येन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपघाशुद्धानिति
गोणिकापुत्रः । अद्रोहो धर्मस्तमपि भयाज्जयादतो धर्मभयोपधाशु-
द्धानिति वात्स्यायनः ॥
 
कामोपषेति । कामविषये या परीक्षा तया शुद्धान् । ते हीति । यद्यपि
स्वयं कामोपधाशुद्धा नाभिगच्छन्ति तथापि भयेन लोभेन चान्यं प्रयोजये -
युस्तदशुद्धिसंभवात्तस्मादेतादृशानित्यर्थः । धर्मोपधाशुद्धो न परदारानमिग-
च्छति नार्थलोमात्खामिद्रोहमाचरति भयातु धर्मे परित्यजेदिति ।
 
खदारषु परीक्षणमपि रक्षणोपाय इति केचिदाहुः । [तदाह - ]
परवाक्याभिषायिनीभिश्च गूढाकाराभिः प्रमदाभिरात्मदारानु-
पदध्याच्छौचाशौचपरिज्ञानार्थमिति वाभ्रवीयाः । दुष्टानां तेपु
सिद्धत्वा नाकस्माददुष्टदूषणमाचरेदिति वात्स्यायनः ॥
 

 
परवाक्येति । अमुकस्त्वय्यनुरक्तः स एवमाह मम प्राणसमा धा-
र्यतामिति । गूढाकाराभिरिति सा न जानाति पत्या प्रयुक्तेति । तयोपद-
ध्यात्परीक्षेत । अप्रतिपन्नायाः शौचं प्रतिपन्नायाश्चाशौचं ज्ञातं भवति ।
दुष्टानामिति विनाशकारणानामित्यर्थः । एवं मन्यते तथाहि — विनाशका-
रणेषु सत्सु स युवा परीक्षावान्स्मात् असत्सु वा । तत्र पूर्वस्मिन्पक्षे दूँ-
घ्याणां दूषणमाचरेत् । उत्तरत्र नेत्याह–नाकस्मादिति । अविद्यमानवि-
नाशकारणानामित्यर्थः । अदुष्टशोषः । वुद्धिबोधनस्य (शुद्धशोधनस्य )
दोषवत्त्वात् । यथोक्तम् – 'न शोधनमदुष्टस्य विशेषेणाम्भसश्चरेत् ।
 
१. 'धर्मार्थकाममयोपघा'; 'धर्मंत्रयोपघा. २. 'दूत्याना'.