2023-02-19 13:59:33 by ambuda-bot
This page has not been fully proofread.
६ अध्याय:]
५ पारदारिकमधिकरणम् ।
तत्रेति प्रवेशननिर्हारयोरेतद्वक्ष्यमाणमुपान्तरं भवति । द्रव्याणामिति
सारदार्वापानकानां युग्मादीनां करैर्निहारे प्रवेशने च तन्मध्यवर्तिनोऽपि प्र-
वेशनं निष्क्रमणं चेति सर्वत्र योज्यम् । आपानकमुत्सवः । चार्थेऽपिः । चे-
टिकानां च संभ्रमे इतस्ततो गमने। तद्वेश्मव्यत्यास इति चकारादुद्यानतश्च ।
दीर्घकालोदयामिति दीर्घकाल उदयः फलं यस्यां ने पात्रसाध्यं स तु न
भवतीत्यर्थः । ननु या नैवंविधा अन्तःपुरिकास्ताभिर्मन्रो भिघेतेत्याह-प-
रस्परस्येति । कार्याणि रहस्यानि । अन्तःपुरालया अन्तःपुरिकाः ।
एककार्या इति । एकस्या यत्कार्य तत्संभूयास्माभिर्निष्पाद्यमिति । शेषाणां
भेदनं कुर्युर्यथा ता अपि समानधर्मिण्यः स्युः । किं फलमिति चेदाह-
दूषयित्वेति । एककार्यार्पण इति । एकं चारित्रखण्डनाख्यं कार्य परस्पर-
स्यार्पयति योऽन्तः पुरिकासङ्घः । अमेद्यतां गतो मन्त्रभेदाभावादेव स्थितिः
(स्थिरः) । इदमन्तः पुरिकावृत्तं प्रच्छन्नमुक्तम् । प्रकाशं तु देशप्रवृत्त्या ।
यदाह-
तत्र राजकुलचारिण्य एव लक्षण्यापुरुषानन्तःपुरं प्रवेशयन्ति
नातिसुरक्षत्वादापरान्तिकानाम् । क्षत्रिय संज्ञकैरन्तः पुररक्षिभिरे-
वार्य साधयन्त्याभीरकाणाम् । प्रेष्याभिः सह तद्वेपान्नागरकपुत्रा-
न्प्रवेशयन्ति वात्सगुल्मकानाम् । खैरेव पुत्रैरन्तःपुराणि कामचारै-
र्जननीवर्जमुपयुज्यन्ते वैदर्भकाणाम् । तथा मैवेशिभिरेव ज्ञातिसं-
बन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम् । ब्राह्मणैभित्रैर्भृत्यैर्दास चेटैश्च
गौडानाम् । परिस्पैन्दाः कर्मकराधान्तः पुरेष्वनिषिद्धा अन्येऽपि
तद्रूपाश्च सैन्धवानाम् । अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः
प्रविशन्ति हैमवतानाम् । पुष्पदाननियोगान्नगरव्राह्मणा राजवि-
दितमन्तः पुराणि गच्छन्ति । पटान्तरितचैषामालापः । तेन मसङ्गेन
व्यतिकरो भवति बङ्गाङ्गकलिङ्गानाम् । संहत्य नवदशेत्येकैकं यु-
१. 'आह'. २. 'यानपात्रसाध्य'. ३. 'विचक्षणात्'. ४. नागरकान् तद्रपाभिवेश-
यन्ति'. ५. 'उपभुज्यन्ते'. ६. 'प्रवेशितैः'. ७. 'मित्रै.. ८. 'परिस्कन्दा''.