This page has not been fully proofread.

कामसूत्रम् । २८ आदितोऽध्यायः ]
 
३००
 
यत्र चास्या नियतं गमनमिति विद्यात्तत्र मच्छन्नस्य मागेवाव
स्थानम् । रक्षि(त) पुरुपरूपो वा तदनुज्ञातवेलायां प्रविशेत् । आ-
स्तरणमावरणवेष्टितस्य वा प्रवेशेनिर्हारौ । पुटपुटयोगैर्वा नष्टच्छा-
यारूपः । तत्रायं भैयोगः–
नकुलहृदयं चोरेंकतुम्बीफलानि सर्पा-
क्षीणि चान्तर्धूमेन पचेत् । ततोऽञ्जनेन समर्थांगेन पेपयेत् । अने-
नाभ्यक्तनयनो नष्टच्छायारूपश्चरति । (अन्यैश्च जलव्रह्मक्षेमशिरः-
मणीतैर्वाह्यपानकैर्वा) रात्रिकौमुदीपु च दीपिकांसंवाघे सुरङ्गया वा ॥
पुटापुटैरिति मञ्जूपायां सपिधानायां प्रक्षिप्तस्य योगैराम्नायागतैः । नष्ट-
च्छायारूपस्येति । कश्चिद्रूपमेव तिरस्करोति न च्छायाम् । यो रूपमपि न
पश्यते । रात्रिकौमुदीपु चेति सुखरात्रिकासु वा । दीपिकासंबाघे गृहीत -
दीपिकानां समूहे । तद्वेषघारिणः । सुरडया वा अन्तःपुरोद्भिन्नया । प्रवे-
शनिर्हारौ सर्वत्र योज्यौ ।
तत्रैतद्भवति -
 
'द्रव्याणामेपि निर्झरे पानकानां प्रवेशने ।
आपानकोत्संवार्थेऽपि चेटिकानां च संभ्रमे ॥
व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये ।
उद्यानयात्रागमने यात्रातच प्रवेशने ॥
दीर्घकालोदयां यात्रां प्रोपित चौपि राजानि ।
प्रवेशनं भवेत्प्रायो यूनां निष्क्रमणं तथा ॥
परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः ।
एककार्यास्ततः कुर्युः शेषाणामपि भेदनम् ॥
दूपयित्वा ततोऽन्योन्यमेककार्यार्पणे स्थिरः ।
अभेद्यतां गतः सद्यो यथेष्टं फलमश्नुते ॥
 

 
-
 
१. 'तदनुजातोऽतिवेलाया'. २. 'निर्हरणप्रवेशी'. ३. 'योगः'. ४. 'रोचकः .
५. 'अन्तर्धूमं'. ६. 'समभगिनोदकेनाभ्यक्त'. ७. 'चेटिकासवाघे'.
भवन्ति चात्र श्लोकाः'. १. 'द्रव्याणाममि'. १० 'उत्सवार्थाना.'
११. चव'.
 
'तत्रतद्भवति
 
'उत्सवार्येपु'.
 
1
 
1