This page has not been fully proofread.

६ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२९९
 
राजप्रणिधींच बुध्येत । दूत्यास्त्वसंचारे यत्र गृहीताकारायाः प्रयो-
ज्याया दर्शनयोगस्तत्रावस्थानम् । तस्मिन्नपि तु रक्षिपु परिचारिका-
व्यपदेशः । चक्षुरनुवध्नामिङ्गिताकारनिवेदनम् । यत्र संपतो-
Sस्यास्तत्र चित्रकर्मणस्तयुक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडन-
कानां कृतचिह्नानामापीनकाना (कस्य) मङ्गलीयकस्य च निधानम् ।
प्रत्युत्तरं तयाँ दत्तं प्रपश्येत् । ततः प्रवेशने यतेत ॥
 
-
 
बाह्या ये रक्षिणः । अन्यदेवेत्यमुकसंबन्धेन मम त्वं आता भगिनीप-
तिर्वेति । संसृज्येत प्रीतिं कुर्यात् । येन तेषां तन्निवारणे शैथिल्यं स्यात् ।
विदितार्थायामिति मय्यनुरक्त इति विदितार्थायां शक्ति (सक्तं ) रूपयेत्प्र-
काशयेदाकारसंवरणार्थम् । एवं च दायर्थमाह - तदलाभादिति ।
परिचारिकाया अप्राप्तेः शोकं प्ररूपयेदित्यर्थः । अन्तःप्रवेशिनीभिश्चेति ।
बाह्यामिरन्तः पुरप्रवेशनशीलाभिः स्त्रीभिः करणभूताभिः । दूतीकल्पं दूती-
विधिं यथोक्तम् । राजप्रणिधीश्चेति । राजचरान् बुध्येतात्मसंरक्षणार्थम् ।
यत्र यस्मिन्प्रदेशे दूरस्थाया एव दर्शनयोगः । गृहीताकाराया इति ।
अन्यथा सत्यपि दर्शनयोगेऽवस्थानं निष्फलमेव स्यात् । तस्मिन्नपि तु प्रदेशे
स्थितेन रक्षिषु परिचारिकाव्यपदेशः कार्यः । यस्यामात्मनः सक्तोऽतिनि-
रूपितः (?) । चक्षुरनुबघ्नन्त्यामिति पुनः पुनः पश्यन्त्यां प्रयोज्यायाम् ।
इङ्गिताकारनिवेदनं भावसूचनार्थम् । संपात इति यत्रोद्देशे सम्यग्जननम् ।
तद्युक्तस्येति प्रयोज्यायुक्तस्य । सानुरागमात्मानं फैलके मित्तौ (वा) वि-
लिख्य निदध्यात् । यर्थानामिति यानि प्रयोज्याविषयमनुरागं सूचयन्ति ।
गीतवस्तूनां खण्डगाथावर्णादीनाम् । क्रीडनकानां पुत्रिकाकन्दुकादीनां
कृतचिह्नानाम् । आपीनकस्य (?) नखदशनपदाङ्कितस्य । अङ्गुलीयकस्य
नामाङ्कितस्य । प्रत्युत्तरं चेति तयान्यया वा दत्तं प्रकर्षेण पश्येत् । तत
इति ल्यब्लोपे पञ्चमी । त्यतं क्रमणम् (?) ।
 
१. 'अवबुध्येत'. २. 'परिचारिकापदेशः'. ३. 'प्रयोज्यायां चक्षुः'. ४. 'संपात:
स्यात्'. ५. 'श्लोकानां व्यर्थानां गीतवस्तुकाना क्रीडितकाना कृतचिहानामङ्गुलीयस्य
निधानम्'. ६. 'प्रत्युत्तरं च'. ७. 'तयापि'. ८. 'शक : '. ९. 'फलकेऽभिलिख्य'.