This page has not been fully proofread.

२९८
 
कामसूत्रम् ।
 
२८ आदितोऽध्यायः]
 
इति तासु नागरकाणां यथार्थबुद्धिर्न बाह्यासु। आयतिमित्यागामिफलमेवं
भविष्यतीति । अपसारभूमिमपक्रमणमार्गम् । विशालतामिति विस्तीर्ण न
ज्ञायते क कि वर्तत इति । प्रमादमसावधानताम् । अनित्यतामिति राज-
परिजनो न नित्यं संनिहित इति । असद्भूतेनेति विनाभावेन सुप्रवेशितां
विना । जनमिति नागरकम् । आवर्तयेयुरभिमुखीकुर्युः । दोषादिति विना-
भावमदुष्टदूषणे आत्मनः सुप्रवेशिताद्यभावे च जन॑स्यापकारः ।
द्वितीयं वृत्तमधिकृत्या -
 
नागरकस्तु सुप्रापमप्यन्तःपुरमपायभूयिष्ठत्वान भविशेदिति
 
वात्स्यायनः ॥
 
अपायभूयिष्ठत्वादिति बहूनां विनाशकारणानां संनिधानात् ।
अत्र विशेषमाह --
 
सापसारं तु प्रमदवनावगाढं विभक्त दीर्घकक्ष्यमल्पप्रमत्तरक्षकं
भोपितराजकं कारणानि समीक्ष्य बहुश आहूयमानोऽर्थबुद्धया क
क्ष्यामैवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् । शक्तिविषये
च प्रतिदिनं निष्क्रोमेत् ॥
 
प्रमदवनं क्रीडावनं तेनावगाढं गहनम् । कक्ष्या प्रकोष्ठकानि । प्रोपित-
राजकं राज्ञोऽन्यत्र गतत्वात् । कारणान्यभिगमनस्य । बहुश आहूर्य॑मानो -
ऽर्थबुद्धचा । कक्ष्याप्रवेशं दृष्ट्वा अनेन मार्गेण मया प्रवेष्टव्यमिति । ताभिरिति
या उपावर्तन्ते । विहितोपाय इत्येवंवेषोऽस्मिन्काले गृहीत्वा चेदमिति ।
शक्तिविषये चेति येन प्रवेगेन प्रतिदिनं निष्क्रमितुं शक्तिस्तस्मिन्सति ।
इदमुपावर्तनस्य वृत्तम् ।
 
यस्तु स्वयमुपावर्तते तस्य वृत्तमाह -
 
बहिश्च रक्षिभिरन्यदेव कारणमपदिश्य संसृज्येत । अन्तथा
रिण्यां च परिचारिकायां विदितार्थायां सक्तमात्मानं रूपयेत् ।
तदलाभाच्च शोकमन्तःप्रवेशिनीभिश्च दूतीकल्पं सकलमाचरेत् ।
१. 'जनत्योपकार:'. २. 'इति वात्स्यायनः' पुस्तकान्तरे
४. 'प्रदेशं. ५. 'निष्क्रमेत् . ६. 'आहूयमान अर्थिना युध्वा'. ७. 'निरूपयेत्'.
 
नास्ति. ३. 'वगूढ'.