This page has not been fully proofread.

२८ आदितोऽध्यायः]
 
पष्ठोऽध्यायः ।
 
यथेश्वराणां परभवनप्रवेशो नास्ति तथान्तःपुरिकाणां नागरकाणां चा-
न्तःपुरप्रवेश (इत्यन्तः पुरिकाणां नागरिकाणां) चेत्युभयथाप्यन्तःपुरिका-
वृत्तमुच्यते । तत्र पूर्वमधिकृत्याह-
नान्तः पुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वा-
ढ़नेकसाधारणत्वाच्चातृप्तिः । तस्मात्तानि प्रयोगत एव परस्परं
रञ्जयेयुः ॥
 
-
 
नान्तः पुराणामिति । तस्मादन्तः पुरिकाणामित्यर्थः । तासां पतिरस्त्येवेति
चेदाह — पत्युश्चैकत्वादिति । एकोऽपि तृतिं कुर्यादिति चेदाह – अनेक-
साधारणत्वाञ्चेति । स हि तासां साधारणः कथं तृप्तिं कुर्यात् । प्रयोगत
एवेति । प्रयोगतः । परस्परमिति या रतिमन्यस्यां कुर्यात्तस्यामन्येति ।
प्रयोगमाह ---
 
-
 
धात्रेयिकां सखीं दासीं वा पुरुपवदलंकृसाकृतिसंयुक्तैः कन्द-
मूलफेलावयवैरपद्रव्यैर्वात्माभिप्रायं निवर्तयेयुः ॥
 
२९६
 
कामसूत्रम् ।
 
पुरुषवदलंकृत्येति । तत्र हि पुरुषबुद्ध्यातिमात्रे भावे तृप्तिरतिशयित-
वती भवति । आकृतिसंयुक्तैरिति पुरुपेन्द्रियसंस्थानवद्भिः । कन्दमूलफला-
वयवैरिति तत्र कन्दा आलुककदल्यादीनाम् । मूलं तालकेतकीनाम् ।
फलमलावुकर्कटिकादीनाम् । एतानि संशोध्य ग्राह्माणीति । अवयवग्रहणे
फलं दर्शयति – आत्माभिप्रायमिति । रागभावं निवर्तयेयुः । केवलं श्रद्धा-
विनो[दनं] न तथाविधः कामः स्यादप्राधान्यात् ।
पुरुषप्रतिमा अव्यक्तलिङ्गाथाधिशयीरन् ॥
पुरुपप्रतिमाः पुरुषदेहाः । अव्यक्तलिङ्गा अजातश्मश्रुत्वात्स्त्रीरूपाभासा
इत्यर्थः ।
 
एकोऽपि तृप्तिं कुर्याद्यः कामार्तासु कृपाशीलो यथा प्राच्यानामित्याह -
राजानच कृपाशीला विनापि भावयोगादायोजितापद्रव्या या
 
फलं."