This page has not been fully proofread.

५ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२९९
 
नगरस्त्रियो जनपदस्त्रियश्च सङ्घश एकशच राजकुलं भविशन्ति
सौराष्ट्रकाणामिति ॥
 
प्रत्ता इत्यूढा । औपायनिकमुपायप्रयोजनं वस्त्रादि । उपभुक्ता राज्ञा
संप्रयुक्ताः । विसृज्यन्ते त्यक्ष्यन्ते इत्यान्त्राणां प्रवृत्तिः । महामात्राणामी-
श्वरा मुख्यास्तेषामन्तःपुराणि स्त्रियः । सेवार्थमिति कर्तु (रन्तुम् ) । वात्स-
गुल्मकानामिति दक्षिणापये सोदय राजपुत्रौ वत्सगुल्मौ ताभ्यामध्या-
सितो देशो वात्सगुल्मक इति प्रतीतः । तत्रभवानामियं प्रवृत्तिः । रूप-
वतीरिति प्रशंसायां वतिः । प्रीत्यपदेशेनेति प्रीतिस्तत्रापदेशः संप्रयोगस्तु
प्रयोजनम् । नगरं यत्र राजधानी तत्र स्त्रियो नगरस्त्रियः । ततो बाबा ज-
नपदस्त्रियः । सङ्घश इति संभूय । एकश इत्येकैकगन्ध सौराष्ट्रकाणामिति ।
उक्तमनुक्तं चोपसंहरन्नाह -
श्लोकावत्र भवतः
 
-
 
'एते चान्ये च बहवः प्रयोगाः पारदारिकाः ।
देशे देशे मवर्तन्ते राजभिः संप्रवर्तिताः ॥
न त्वेवैतान्प्रयुञ्जीत राजा लोकहिते रतः ।
निगृहीतारिपडर्गस्तथा विजयते महीम् ॥"
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरण
ईश्वरकामितं पश्चमोऽध्यायः ।
 

 
एते चेति अन्ये चैतत्प्रकाराः । पारदारिकाः परदारप्रयोजना एते
देशे देशे प्रवर्तन्ते पूर्वराजभिः संप्रवर्तितत्वात् । स महीपतिर्न विजयते ।
अनिगृहीतारिषड्डूर्गत्वात् । विजयस्य कारणं कामक्रोषलोभमानमदहर्षजय
इति । ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाहनाविरह-
कातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाप्याया पारदा-
रिके पक्ष मेऽधिकरण ईश्वरकामित पञ्चमोऽध्यायः ।
 
१. 'भवतथात्र श्लोकौं'. २. 'पूर्वराजप्रवर्तिताः'.