2023-02-19 13:59:32 by ambuda-bot
This page has not been fully proofread.
२९४
कामसूत्रम् ।
२७ आदितोऽध्यायः]
अन्यथा अदुष्टदूषणमधर्माय भवति । एवं चास्य कलत्रावग्रहो न दोषाय ।
एतद्योगद्वयं त्याजितस्वकुलासु । एते राजपुत्रेषु प्रायेण न तु राज्ञः । तस्य
मण्डले प्रतिष्ठितत्वात्कादाचित्काः स्युः ।
ननु परभवनप्रवेशेनापि च्छन्नयोगाः संभवन्ति यदा दूत्या प्रयोज्यां सं-
केत्य प्रच्छन्नः प्रविशति । न च तदानीं चरितं महाजनेन दृश्यतेऽनुवि-
धीयते चेत्यत्राह-
न त्वेवं परभवनमीश्वरः प्रविशेत् ॥
प्रविशत्प्रच्छन्नोऽपीत्यर्थः ।
अत्र विवृतं दोषं दर्शयति -
आभीरं हि कोट्टराजं परभवनगतं भ्रातृमयुक्तो रजको जघान ।
काशिराजं जयसेनमश्वाध्यक्ष इति ॥
गूर्जराते कोट्टं नाम स्थानं तस्य राजानमामीरनामानं परभवनगतमिति
थेष्ठिवसुमित्रस्य भार्यामधिगन्तुं तद्भवनगतं जघान ।
प्रकाशास्तु योगा राज्ञः प्रायेण द्रष्टव्याः । यदाह-
प्रकाशकामितानि तु देशप्रवृत्तियोगात् ॥
देशप्रवृत्तियोगादिति यो यस्सिन्देशे समाचारः पूर्वैः स्थापितस्तद्योगा-
दिति । अतो दृश्यमानान्यपि कामितानि महाजनेन नानुविधीयन्ते । रा
ज्ञामेव तत्राधिकारात् ।
मत्ता जनपदकन्या दशमेऽहनि किंचिदौपायनिकमुपगृह्य मंवि-
शन्त्यन्तः पुरसुपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम् । महामा-
त्रेश्वराणार्मेन्तः पुराणि निशि सेवार्थं राजानमुपगच्छन्ति वात्स-
गुल्मकानाम् । रूपवतीर्जनपदयोपितः प्रीत्यपदेशेन मासं मौसार्ध
वातिवासयन्त्यन्तः पुरिका वैदर्भाणाम् । दर्शनीयाः स्वभार्याः प्री-
तिढायमेव महामात्रराजभ्यो ददत्यपरान्तकानाम् । राजक्रीडार्थ
१. 'जयत्सेनं'. २. 'ततः'. ३. 'प्रविश्यान्तः पुरं'. ४. 'चान्तः पुराणि'. ५. 'अर्घमासं
वा वासयन्ति'.