2023-02-19 13:59:31 by ambuda-bot
This page has not been fully proofread.
५ अध्याय:]
५ पारदारिकमधिकरणम् ।
२९३
यस्य । भीतस्य चेति यो राजकुलागीतस्तस्य जायां भिक्षुकी राजप्रणि-
हिता ब्रूयात् । तस्मिन्प्रयोगे तृतीयापरा प्रयुक्ता । सा ह्येवंविधं कार्य बुद्धा
प्रयोज्यामन्त पुरिकया योजयति । राजनि सिद्धा प्रसादयितृका (प्रसा-
दवित्तका) । गृहीतवाक्येति सा यदाह तद्राजा करोति मम वचनं शृणो-
तीत्यात्मनो गृहीतवाक्यतामाह । स्वभावतः कृपाशीलेत्युक्त्या वाभावं ( स्व-
भावं) दर्शयति । तामनेनेति तदानीं बुद्धिविकल्पितेनोपायेन । कथं मम
प्रवेश इति चेदाह – अहमेवेति । अनर्थमित्युपलक्षणार्थम् । भयं च
निवर्तयिष्यति । द्विस्त्रिरिति प्रवेशयेत्पश्चाज्जातपरिचया स्वयमेव प्रवेक्ष्यति ।
अभयमस्यै दद्यात् । अभयं निवेदितवत्यै संप्रहृष्टां न तूद्विमां संभाषेत ।
एतयेति उद्भूतानमीतजायया । वृत्त्यर्थिनां जीवनार्थिनाम् । महामात्रा-
मिततानां महामात्रैः प्रभवद्भिः पीडितानाम् । बलाद्विगृहीतानां राजव
त्त्वात् । व्यवहारे दुर्बलानां न्यायबलाभावात् । खभोगेन तावन्मात्रेणासं-
तुष्टानामधिकमिच्छताम् । राजनि प्रीतिकामानां क्वचित्परिभवं मम मा
कार्षीदिति । राज्यजनेषु पनि (व्यक्ति) प्रसिद्धिमिच्छतां राज्ञः प्रसाद्यो-
ऽयमिति । सजातैर्दायादैः । सूचकानामुद्भाषकाणाम् । कार्यवशिनामिति
कार्यार्थिनाम् । जाया व्याख्याताः । अत्रापि भिक्षुकी ब्रूयादिति योज्यम् ।
एते प्रच्छन्नयोगा अत्याजितखकुलासु स्त्रीपु ।
अन्येन वा प्रयोज्यां सह संसृष्टां 'संग्राह्य दास्यमुपनीतां क्रमे-
णान्तःपुरं प्रवेशयेत् । मणधिना चायतिमस्या: संदृष्य राजनि
विद्विष्ट इति कलत्रावैग्रहोपायेनैना मन्तःपुरं प्रवेशयेदिति प्रच्छन्न-
योगाः । एते राजपुत्रेषु प्रायेण ॥
।
येन केनचित्संसृष्टा कृतसंसर्गा । संग्राह्येति नागरकेण विधिना ग्राह-
यित्वा । दास्यमुपनीतामिति प्रकाशविनष्टाया वेश्याविशेषत्वात् । तां सा-
मान्यस्त्रियं कारयित्वा क्रमेणान्तःपुरं प्रवेशयेत् । न सहसा निरन्तरमेव ।
मा भूदेतत्कृतः प्रयोग इति । प्रणधिना चारेण संदूप्य संभूतेनैव दोषेण ।
१. 'सत्य'. २. 'वग्रहोपायेनान्तःपुरं'.