2023-02-19 13:59:31 by ambuda-bot
This page has not been fully proofread.
५ अध्यायः]
५ पारद्वारिकमधिकरणम् ।
२९१
भाषेत । रामणीयकदर्शनेन योजयेत् । मागेव स्वभवनस्थां ब्रूयात् ।
अनुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्शयि-
प्यामीति काले च योजयेत् । बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि ।
मणिभूमिकां वृक्षवाटिकां मृद्धीकामण्डपं समुद्रगृहमासादान्गूढभि-
त्तिसंचारांश्चित्रकर्माणि क्रीडामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्ज-
रादीनि च यानि पुरस्ताद्वर्णितानि स्युः । एकान्ते च तद्गतमीश्व-
रानुरागं श्रावयेत् । संमँयोगे चातुर्ये चाभिवर्णयेत् । अमन्त्रावं च
प्रतिपन्नां योजयेत् ॥
तत्रेत्यष्टमीचन्द्रादिपु । प्रणिहिता राज्ञा प्रयुक्ता । प्रयोज्याया इति
यामभिगन्तुमिच्छेत् । पूर्वसंसृष्टेति पूर्वमेव ग्रहयित्वा (?) संसर्ग कृत-
वती । तामिति प्रयोज्यां राजभवने प्रविष्टां भापयेत्कुशलपूर्वकम् । रा
मणीयकदर्शनेन चित्तहरणार्थम् । प्रागेवेति राजभवनप्रवेशात् खभवनस्थां
त्र्यादौत्सुक्यकारणार्थम् । अमुष्यामिति काले च प्रज्ञाते योजयेत् । रा-
मणीयकरोचनान्याह—बहिरिति । प्रवालकुट्टिमं मणिभूमिकां स्फटिका-
द्याकारकृतं कुट्टिमं भूमिम् । वृक्षवाटिकां पुष्पफलसमृद्धाम् । मृद्वीकाम-
ण्डपं द्राक्षामण्डपम् । समुद्रगृहप्रासादानिति गूढभित्तिमध्यगतत्वात् ज-
लसंचारा येषु समुद्रगृहेषु प्रासादेष्वपि निष्कासनमवेशनलक्षणसंचारानिति
योज्यम् । यन्त्राणि सजीवानि निर्जीवानि घटितान्यन्यानि च यानि कौतु-
कानि । क्रीडार्था ये मृगाः । शकुनकान्हंसादीन् । व्याघ्रपञ्जरान्व्याघ्राधि-
ष्ठितान् । कस्याश्चिदेव क्वचित्कौतुकमुत्पद्यत इत्यनेकोपदर्शनम् । एकान्त
इति । अनुपग्रहोचितत्वादेव प्रवेशोऽपि तस्या उचित इति ।
अप्रतिपद्यमानां स्वयमेवेश्वर आगत्योपचारैः सान्वितां रञ्ज-
यित्वा संभूय च सानुरागं विसृजेत् । प्रयोज्यायाश्च पत्युरनुग्रहो-
चितस्य दारान्नित्यमन्तः पुरमौचित्यात्मवेशयेत् । तत्र प्रणिहिता
१. 'गृहं प्रासादाच'. २. 'च प्रतिभवनं चित्रकर्माणि'. ३. 'संप्रयोगं चाभि-';
'संप्रयोगे चायतिं चाभि-'. ४. 'श्राविता'. ५. 'अनुग्रहोचित'. ६. 'प्रदेशोऽपि. ७.'च
स्वयमीश्वर आर्योपचारैः सान्त्वनैः'. ८. 'प्रवेशयेयुः'.