This page has not been fully proofread.

२७ आदितोऽध्यायः]
 
२९०
 
कामसूत्रम् ।
 
तथा व्रजयोपिद्भिः सह गवाध्यक्षस्य ॥
गोपीभिर्गवाध्यक्षस्य दधिमथनादिकर्मसु ।
विधवानाथा प्रत्रजिताभिः सह सूत्राध्यक्षस्य ॥
 
स ह्यधिष्ठाय राजकीयसूत्राणि विधवादिभिः कर्तनिकाभिः कर्तयति ।
मर्मज्ञत्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ॥
 
नगरे नियुक्तस्य दाण्डपाशिकस्य स्त्रीमर्मज्ञत्वाद्रात्रावटने चाटन्तीभिः ।
क्रयविक्रये पण्याध्यक्षस्य ॥
 
राजकीयपण्यानि क्रयितुं विक्रयितुं च नियुक्तस्य क्रेतृविक्रेतृस्त्रीभिः ।
संप्रयोग इति सर्वत्र योज्यम् ।
 
मुख्यानधिकृत्य प्रच्छन्नमाह -
 
अष्टमीचेन्द्रकौमुदीघ्रुवसन्तकादिपु पत्तननगरखर्बटयोषितामी-
श्वरभवने सहान्तः पुरिकाभिः प्रायेण क्रीडा ।
 
कौमुदी कोजागरः । नागरकविटौ (नगरखर्वटौ) व्याख्यातौ । पत्तना-
दिकमुपलक्षणार्थम् । द्रोणमुखश्च । ईश्वरभवन इति यस्य नगरादि [न]
विद्यते तस्य भवने । अन्तःपुरिका अन्तःपुरस्त्रियः ।
 
तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तः पुरिकाणां पृथ-
क्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रपीताश्रो-
पप्रदोपं निष्क्रामयेयुः ॥
 
तत्रेति क्रीडायाम् । आपानकान्त इति अन्तःपुरिकाभिः सर्वाभिः सह
पेयं पीत्वा । तदन्ते विशेषविधिमाह -- नगरस्त्रिय इति । अत्रापि नगर-
खैर्वटद्रोणमुखस्त्रियश्च । भोगावासकानिति परिभोगप्रदेशान् । कथाभि-
रासित्वेत्यन्तः पुरिकाभिः सह कथाभिः स्थित्वा । पूजिता अन्तःपुरि-
काभिः । प्रपीता इति प्रपीतमासां विद्यत इति मत्वर्थेऽकारः । उपप्रदोषं
प्रदोपसमीपे निष्कामन्ति दिनं राजभवनेऽतिवाह्य ।
 
तत्र प्रणिहिता राजदासी मँयोज्यायाः पूर्वसंसृष्टा तां तत्र सं-
१. 'मर्मज्ञभावाद्रात्रावटतः कुलटायोपाभिर्वणिग्योपाभिर्नागरिकस्य'. २. 'चन्द्रक'.
३. 'कट'. ४. 'च' पुस्तकान्तरे नास्ति. ५. 'योपितः'. ६. 'कवट'. 'प्रयोज्यया'.