This page has not been fully proofread.

५ अध्यायः] १ पारदारिकमधिकरणम् ।
 
कुत्सनीयं तस्मात्तदर्थं न ते किंचिदनुष्ठानमाचरेयुः । निष्फलत्वात्स्वपरित्र-
हेष्वपि सुखसंभवात् ।
 
अवश्यं त्वाचरितव्ये योगान्मयुञ्जीरन् ।
 
२८९
 
अन्यकारणवशात्स्थानान्तरयायिनो वा रागवशादाचरितव्ये । योगा-
निति प्रयोगान् । ते द्विविधाः – प्रच्छन्नाः प्रकाशाश्च । ईश्वरा अपि
द्विविधाः—
क्षुद्रा मुख्याश्च । तत्र क्षुद्रानधिकृत्य प्रच्छन्नमाह -
 
C
 
ग्रामाधिपतेरायुक्तकस्य हलोत्थवृत्तिपुत्रस्य यूनो ग्रामीणयो-
पितो वचनमात्रसाध्याः । ताश्चर्षण्य इत्याचक्षते विटाः ॥
 

 
ग्रामभुक्त्या युक्तस्याधिकृतस्य । हलोत्थवृत्तिर्मामकूटः । तस्य ग्रामीणैः
कर्षणहलिका दीयन्ते । तस्य पुत्रस्य । यून इति प्रत्येकं योज्यम् । यत्ते-
पामीश्वरत्वाद्वचनमात्रसाध्या नाभियोगमपेक्षन्ते । कि सर्वा एवेत्याह-
ताश्चर्षण्य इति संज्ञा इत्यर्थः ।
 
Cotople
 
ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमणम-
वेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णातसीशणवल्कला-
दाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च
कर्मसु संप्रयोगः ॥
 
-
 
तामिरिति चर्षणीभिः सह संप्रयोग इति वक्ष्यमाणेन संवन्धः । अत्रो-
पायमाह — विष्टिकर्मस्विति । सक्तमात्रेण (?) बिना यानि पेपणकुट्टनरन्ध-
नादीनि कार्याणि तानि विष्टिकर्माणि । कोष्ठागारप्रवेशे तत्रत्यं कर्म कर्तुं
प्रविष्टाभिः द्रव्याणां धान्यादीनां कोष्ठागारान्निष्कामणे तत्र च प्रवेशे तत्र
कर्म कर्तुं प्रविष्टाभिः । क्रियमाणे भवनप्रतिसंस्कारे गृहमण्डने । क्षेत्रक-
र्मणि बीजानां रक्षणोत्पाटनगदी(?) । कर्पासस्योर्णाया अतसीशणवल्क-
लस्य च भाण्डागारात्सूत्रकर्तनाय दाने । सूत्रस्य च कर्तितस्य प्रतिग्रहे
स्वीकारे कर्तनिकाभिः । द्रव्याणामिति धान्यादीनाम् । क्रयविक्रयविनिमये-
प्विति क्रेतुं विक्रेतुं वा प्रविष्टाभिः । तेषु तेषु चेति राजकुलप्रवेशहेतुपु ।
 
१. 'कर्पासातसीशणोण'. २. 'संप्रयोगा'.
का० ३७