This page has not been fully proofread.

२ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
१९
 
को हीति । अवालिशः प्रेक्षावान् । यथा कश्चित्स्वहम्नगनं द्रव्यं प
रहस्तीकृतं कार्यकाले स्वयं गत्वा साध्यं हारितं भक्षितं वानेन स्यादिनि
P न विप्रकृष्टं करोति, तथा जन्मान्तरे भोक्ष्येऽहंमिति यज्ञादिषु नियोज्य
विप्रकृष्टं कः कुर्यात् ।
 
के
 
तत्र तत्स्यादिह द्रव्यसाध्यं फलं तावन्मात्रकं तावत्कालं बामुत्र वि
परीतमित्याह -
 
वरमद्य कंपोतः श्वो मयूरात् ॥
 
वरमद्येति । यथा पक्षिमांसाथिनो महतः वो मयूरलाभादद्य कपोत-
लाभोऽपि गरीयांस्तद्वदिहापीति ।
द्वितीयस्य लोकप्रेसिद्धिमाह-
के
 
वरं सांशयिकान्निष्कादसांशयिकः कार्पापणः । इति लौकाय-
तिकाः ॥
 
G
 
i
 
i+
 
j
 
वरमिति । गृहाण कार्पापणम्, नो चेदेण्यति मेऽद्य हेमशतं ततो निष्कं
दास्यामीति । तत्र प्रत्युपस्थित कार्यस्यासंदिग्धः स्वल्पोऽपि कार्पापणो
गरीयान् । संदिग्धनिष्कात् । लौकायतिका इति लोकायतमधीयते ये ।
उक्थादिपाठाट्ठक्प्रत्ययः ।
 
तत्र संप्रतिपत्तिमाह -
 
शास्त्रस्यानभिशङ्कचत्वादभिचारानुव्याहारयोश्च कचित्फलदर्श
नानक्षत्रचन्द्रसूर्यताराग्रहचक्रस्य लोकार्थं बुद्धिपूर्वक मित्र महत्तेर्दर्श-
नाद्वर्णाश्रमाचारस्थितिलक्षणत्वाच लोकयात्राया हस्तगतस्य च वी-
जस्य भविष्यतः सस्यार्थे त्यागदर्शनाचरेद्धर्मानिति वात्स्यायनः ॥
 
शास्त्रस्येति । धर्मस्यालौकिकत्वात्तदभिषायकं शास्त्रमुक्तम् । तच्छामं
पौरुषेयमपौरुषेयं च । तत्र पूर्वमभिशङ्कनीयम् - किमिदं सत्यं मिथ्या
वेति । पुरुषा हि रागादिभिरविद्यया चोपलता वितथमपि ध्रुवन्ति । अ-
१. 'कपोतो न श्वो मयूर : ' पा०. २. 'प्रतिद्धमाह' पा०. ३. 'न्यपहारचीख
पा०. ४. 'सूर्यचन्द्र-' पा०. ५. 'लोकानुमहार्यम्' पा०. ६. 'शानं दुतम्' पा●●