This page has not been fully proofread.

कामसूत्रम् ।
 
२७ आदितोऽध्यायः]
 
दोषकारणादिति व्यावृत्तिकारणात् । नापानकयोग्य इत्यर्थः परि-
त्यक्तः (१) । सरवकस्थितीनविचिन्तितः (?) । दूती पुनस्तमावर्तयत्यभि-
मुखीकरोति । वचनकौशलारपटुतायोगात् । इति दूतीकर्माणि षट्चत्वा-
रिंशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण
गुरुदत्तेन्द्रपादामिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां पारदारिके
पश्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः ।
 
२८८
 
पञ्चमोऽध्यायः ।
 
ईश्वराणां परगृहप्रवेशाभावात्कामितं न संभवति प्रायशस्तत्र कैथम-
घिक्रियत इति तदनन्तरमीश्वरकामितमुच्यते । यदाह -
 
न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते । महाजनेन
हि चरितमेषां दृश्यतेऽनुविधीयते च ॥
 
जनसमूहेनैतेषां चरितं दृश्यते सर्वदा तदनुगतत्वात् । यदि दृष्टं तदा
को दोप इत्याह – अनुविधीयते चेति । 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो
जनः' इति ।
 
तदेव दृष्टान्तेन दर्शयति-
सवितारमुद्यन्तं त्रयो लोकाः पश्यन्ति अनुद्यन्ते च । गच्छन्तमपि
पश्यन्त्यनुमैतिष्ठन्ते च ॥
 
सविता लोकेषु श्रेष्ठः । तमुद्यन्तं पश्यन्तीति चरितदर्शनम् । अनूद्यन्ते
च तस्मिंस्तूद्गते सुप्ताः प्रवुध्यन्त इति चरितानुविधानम् । गच्छन्तमपि
देशान्तरे पश्यन्तीति चरितदर्शनम् । अनुप्रतिष्ठन्ते च यथावं क्रियासु
प्रवर्तन्त इति चरितानुविधानम् ।
 
तस्मादशक्यत्वाद्गर्हणीयखाचेर्ति न ते वृथा किंचिदाचरेयुः ॥
परगृहं प्रविश्य यद्यत्त (यदन्य) दाराभिगमनं तदशक्यम् । महाजनेन
दृश्यमानत्वात् गर्हणीयत्वाच्चेति इतरोऽपि जनोऽनुविदध्यादिति शिष्टानां
 
१. 'कथा'. २. 'अनुद्यन्त'. ३. 'प्रतिष्ठन्तं'. ४. 'इति' पुस्तकान्तरे नास्ति.