This page has not been fully proofread.

1
 
}
 
४ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
यास्तिसो दूत्य उक्तास्ताः का इत्याह -
भवन्ति चात्र श्लोकाः-
--
 
२८७
 
विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका ।
प्रविशत्याशु विश्वासं दूतीकार्य च विन्दति ॥
प्रविशति । गृहमिति शेषः । विश्वासं दूतीकायै च विन्दति लभते ।
संक्षेपेण दूतीकर्माण्याह-
विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत् ।
चिंत्रान्सुरतसंभोगानन्यासामपि दर्शयेत् ॥
नायकस्यानुरागं च पुनश्च रतिकौशलम् ।
प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ॥
विद्वेषं ग्राहयेदिति तस्य रूपादिप्रशंसामिः 'अनुशयं ग्राहयेत्' इ-
त्यादिना रमणीयानि वर्णयेत् । 'नायकस्य चरितमनुलोमतां कामितानि च
कथयेत्' इत्यनेन । चित्रान्पुरतसंभोगान्दर्शयेत् ( इत्यादिना ) 'वृषतां चतु:-
षष्टिविज्ञतां संवर्णयेत्' इत्यनेन । अन्यासामपि तत्सखीनामग्रतो न केवलं
नायिकायाः । यतस्तास्तस्यै कथयन्ति । नायकस्यानुरागं वर्णयेत् 'शृणु
विचित्रं' इत्यादिना । पुनश्च रतिकौशलं वर्णयेत्प्रधानत्वादस्य । प्रार्थनां
चाधिकस्त्रीभिः 'श्लाघनीयया चास्य प्रच्छन्नं संयोगं भूतमभूतपूर्व वा
वर्णयेत्' इत्यनेन । अवष्टम्भं नायिकाविषयं निश्चयं तदङ्कशयनं श्मशा-
नशयनं वा । यदुक्तम् – 'शक्यमनेन मरणमप्यनुभवितुम्' इति ।
प्रथमेऽधिकरणे पटुतादयो गुणा उक्ता दूतानां तेषां पटुता प्रधान-
मिति दर्शनार्थमाह-
असंकल्पितमप्यर्थमुत्सृष्टं दोपकारणात् ।
पुनरावर्तयसेव दूती वचनकौशलात् ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे
दूतीकर्माणि चतुर्थोऽध्यायः ।
 
१. 'विचित्रान्रति संयोगाननेकानपि दर्शयेत्'.