This page has not been fully proofread.

२८६
 
कामसूत्रम् ।
 
२६ आदितोऽध्यायः]
 
कलाकौशलं तयैव प्रकाशयेत् । सा भार्यादूती पत्रहारीप्रकारा । तयैव
भार्यादूत्या तस्या नायिकाया आकारग्रहणं प्रत्युत्तरं प्रथममित्यर्थः ।
यदि स्वभार्याया न गोचरस्तदा किं प्रतिपद्येतेत्याह-
वालां वा परिचारिकामदोषज्ञामदुष्टेनोपायेन महिणुयात् । तत्र
स्रजि कर्णपत्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती ।
तस्यास्तयैव प्रत्युत्तरमार्थनम् ॥
 
बालां वा परिचारिकां नायकोचिताम् । अदोषज्ञामधूर्ताम् । अदुष्टेनेति
बालक्रीडनकायुपायेण । नायिकागृहं प्रतिदिनं प्रहिणुयात् । तत्रेति तस्यां
जातपरिचयायां गूढलेखविधानं च वाचयित्वा मां नायकोऽप्याकारयतीति सा
प्रतिपद्यते । नखदशनपदानि च सजि कर्णपत्रे वा निदध्यादिति योज्यम् ।
सा मूकदूती । अर्थानभिभावनात् । इयं पत्रहारीप्रकारा । तस्या नायि-
कायास्तयैव प्रत्युत्तरप्रार्थनम् । यदि तया कैर्णपत्रात्पत्रं गृहीतं किमत्र
मृगयसीति ।
 
यत्र बालाया अप्यगोचरस्तत्र किं प्रतिपद्येतेत्याह-
पूर्वप्रस्तुतार्थलिङ्गसंबद्धमैन्यजनाग्रहणीयं लौकिकार्य व्यर्थ वा
वचनमुदासीना या श्रावयेत्सा वातदूती । तस्या अपि तयैव प्र-
त्युत्तरमार्थनमिति तासां विशेषाः ॥
 
पूर्वप्रस्तुतेति नायिकानायकयोर्यत्पूर्वप्रस्तुतं वृत्तं तस्य चिह्नं तेनाभि-
ज्ञानार्थं संवद्धं वचनम् । अन्यजनाग्रहणीयम् । तस्यामेव तदर्थस्य ग्रह-
णात् । अत्र म्लेच्छितकविकल्पकला द्रष्टव्या । लौकिकार्थं च लोकविदि-
तार्थम् । व्यर्थमप्रस्तुतार्थस्यापि वाचकत्वात् । उदासीना या न क्वचित्प्रति-
प्राययाए (श्रावयेत् ) सा वातदूतीत्युच्यते । पत्रहारीप्रकारैव चेति । त-
यैव प्रत्युत्तरप्रार्थनं तस्य हि प्रश्नस्य प्रतिप्रश्नं याचेदित्यर्थः । तासां वि-
शेपा निसृष्टार्थादीनां स्वयंदूत्यादयो विशेषाः । एवमन्येऽपि यथासंभव-
मत्रैव द्रष्टव्याः । यथाहुर्बानवीयाः–
'पुत्रिका चित्ररूपाणि पशवः शुक-
सारिकाः । सर्वेषां गूढभावानां दूतकर्माणि कुर्वते ॥" इति ।
 
१. कर्णपत्रान्तरपनं. २ 'खजनाप्रहणीयायै'. ३. 'दूत'.