This page has not been fully proofread.

४ अध्यायः]
 
१ पारदारिकमधिकरणम् ।
 
२८५
 
पदिश्य स्वयमीप्य दर्शयति । नखादिचिह्नितं भावसूचनार्थम् । किचिदिति
ताम्बूलावसरे रागादिकम् (१) । ददतीति चानुरागख्यापनार्थमिदं ब्रूयादि-
त्याह –भवतेति । का रमणीयेति । (अथ) को ज्ञास्यतीति ।
 
नायकभार्या सुग्धां विश्वास्यायन्त्रणयानुभविश्य नायकस्य चेष्टि-
तानि पृच्छेत् । योगाशिक्षयेत् । साकारं मण्डयेत् । कोपमेनां
ग्राहयेत् । एवं च प्रतिपद्यस्वेति श्रावयेत् । स्वयं चास्यां नखदश-
नपदानि निर्वर्तयेत् । तेन द्वारेण नायकमाकारयेत्सा मूढदूती ॥
 
साकारं मण्डयेत् स्वाभिप्रायसूचनार्थम् । कोपमस्मिन्प्राहयेत् आत्मनो-
ऽपीयौ दर्शयितुम् । चपलोऽयमन्यस्यां सक्तः किमस्ति येन न कुप्यसीति ।
एवं च प्रतिपद्यख यथाहमाचक्ष इति तां श्रावयेत् । तत्प्रतिकूलां मामनु-
कूलां ज्ञास्यतीति । स्वयं चास्यां भार्यायां नखदशनपदानि विदेधीत संप्र-
योगाभिलाषख्यापनार्थम् । तेनेति क्लेशपथोक्तेन (?) द्वारेण । नायकर्मांका-
रयेदाकारं ग्राहयेत् येनासौ संप्रयोगार्थिनीति विद्यात् । सेति भार्या । मूढ-
दूती दूत्यर्थापरिज्ञानादियं परीक्षा द्रष्टव्या ।
 
तस्यास्तयैव प्रत्युत्तराणि योजयेत् ॥
 
तस्या इति नायिकायाः। तयैवेति मूढदूत्या । प्रत्युत्तराणि प्रत्यभियोगान् ।
यदि नायिका 'नायकोऽप्यन्यदूतश्च व्याख्यातः' इत्युक्तं च तत्र गोचरे
लज्जायां वा यदि स्वयं दौत्यं न प्रतिपद्येत तदा स्वभार्यया तामाकारयेदि-
त्याह-
स्वभार्थी वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा
तयैवाकारयेत् । आत्मनश्च वैचक्षण्यं प्रकाशयेत् । सा भार्या दूती ।
तस्यास्तयैवाकारग्रहणम् ॥
 
मूढामज्ञाम् । विज्ञा हि विकल्पयति मामनया योजयतीति । विश्वासेन
हेतुना योजयित्वा तयैवाकारयेत्स्वभार्यया आकारं ग्राहयेत् । वैचक्षण्यं
 
१. 'पृच्छति-शिक्षयति मण्डयति माहयति श्रावयति - निर्वर्तयति'. २ 'खाकार'.
३. 'आत्मना'. ४. 'किमस्मि'. ५. 'न्यवधीत'. ६. 'आकारयति. ७. 'तत्या'.
८. 'यदि नायिकामिष्टनायकोऽप्येतस्य दूतो व्याख्यातः'. ९. 'गूढ'.