This page has not been fully proofread.

कामसूत्रम् ।
 
२६ आदितोऽध्यायः]
 
दृष्टपरस्पराकारयोरित्याकारग्रहणेन दृष्टं परस्परं (१) नान्यत्किंचित्तयोः
कार्यशेपं संभाषणम् । प्रविरलदर्शनयोरमियोगशेषम् ।
संदेशमात्रं प्रापयतीति पत्रहारी ॥
 
संदेशमात्रमिति कार्यस्य स्थिरत्वात्तन्मात्रं पत्रेण वचसा [वा] प्रापय-
तीति पत्रहारीत्यर्थः ।
 
कस्मिन्विषय इत्याह
 
२८४
 
सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसंबोधनार्थम् ॥
प्रगाढसद्भावयोः । संप्रयोगं प्रत्यभिमुखत्वात् । संसृष्टयोश्च कृतसंसर्ग-
योश्च द्रष्टव्या । किमर्थमित्याह – देशकालेति । अस्मिन्काले स्थाने वानयोः
समागम इति प्रबोधनार्थमन्यतरेण युज्यते सा ।
 
स्वयंदूती (विश्लिष्टार्था) द्विविधा । तत्रैका परार्था या परेण प्रयुज्यते ।
द्वितीयात्मार्था सा खयंदूतीति द्वितीयं नाम लभते । तस्या विधिमाह -
 
दौत्येन मेहितान्यया स्वयमेव नायकमभिगच्छेदजानती नाम
तेन सहोपभोगं स्वप्ने वा कथयेत् । गोत्रस्खलितं भार्थी चास्य नि-
न्देत् । तथ्यपदेशेन स्वयमीर्ष्या दर्शयेत् । नखदशनचिहितं वा किं-
चिद्दद्यात् । भवतेऽहमादौ दातुं संकल्पितेति चाभिदधीत । मैम
भार्याया का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती । तस्या
विविक्ते दर्शनं प्रतिग्रहथ । मँतिग्रहच्छलेनान्यामभिसंधायास्याः
संदेशश्रावणद्वारेण नायकं साधयेत् तां चोपहन्यात्सापि स्वयंदूती ।
एतया नायकोऽप्यन्यदूतश्च व्याख्यातः ॥
 
दौत्येनेति दूतक्रियया अन्यया नायिकया प्रहिता या स्वयमेव नायक-
मभिगच्छेत्कामयेत्सा स्वयंदूतीति संवन्धः । अभिगमोपायोपदेशमाह -अ-
जानती नामेति । अद्य खमे त्वयाहं किलोपभुकेति । गोत्रस्खलितं निन्देत्
ईदृशं तदस्मदीयं नाम भूतं येन त्वया भार्याहूयत इति । भाय चास्य
निन्देत् युक्तमाह्वयितुं यँदेयं रूपवती स्यात् । तद्व्यपदेशेनेति गोत्रस्खलितम-
१. 'संसृष्टयोथ तत्संसर्गयो:. २. 'प्रहिता या'. ३. 'तेन सहोपभोगखप्न कथयेद्गो-
प्रस्खलितं वा'. ४. 'तद्यपदेशेन किंचिद्वदेत् . ५. 'स्वामीयों. ६. 'मम वा त्वद्भा
यांया वा आकाररमणीयतेति'. ७. 'दूसच्छलेन'. ७. 'तस्याः'. ८. 'यदायं रूपवती वा'.