This page has not been fully proofread.

२८०
 
कामसूत्रम् ।
 
२६ आदितोऽध्यायः ]
 
किंचिद्वक्ष्यतीति । आख्यानकानि नियुद्धेऽधृतिकथनार्थं नायककथां वा
करिष्यतीति । चिन्तयन्तीत्यभ्युद्गत (तद्गत मानसा निःश्वसिति । विजू-
म्भते मदनलालसा । प्रीतिदायमिति यत्प्रीत्या दीयते कटकमुत्तरीयं वा
तदस्यै ददाति । इष्टेषु कार्येपूत्सवेषु च स्मरति कथमद्य नायातेति । पुनर्द-
शनानुबन्धमिति पुनर्मया द्रष्टव्यासीति प्रेपयति । साधुवादिनीति त्वद्दर्शनं
नामश्रवणमपि तं सुखयतीति दूत्या कथायां प्रावर्तितायामाह - साधुवा.
दिनी सती किमिदमशोभनमंयुक्तमभिधत्से इत्यभिधाय कथामनुबध्नाति प्र-
वर्तयति । दोपान्ददातीति शठोऽसौ न निर्व्याजं व्यवहरति लोके । चप-
लश्च नैकस्यां रमत इति । तत्संदर्शनमिति नायकदर्शनं यत्तस्याः पूर्वप्रवृत्तं
यत्र [यत्र] यदा यथा । कथाभियोगं च पुनः पुनः कथायोगं पूर्ववृत्तं
स्वयमकथयन्ती लज्जया तयोच्यमानं दूत्या कथ्यमानं काङ्क्षति तेनापि सुखं
स्थीयत इति । नायकमनोरथेप्विति स दिवसो भविष्यति यत्र पादपतनैः
प्रसादिताया अधरं पास्यामीत्येवमादिपु दूत्या कथ्यमानेषु सपरिभवमिव
हसति दूरात् (दुराशा) शठस्य धूर्तस्येति । न च निर्वदति निश्चयेनाभि-
धत्ते सिध्यत्येव तस्य मनोरथ इति ।
 
विपये (शेपे)ण नायिकाया आकारे लक्षिते किं फलमित्याह-
दूत्येनां दर्शिताकारां नायकाभिज्ञानैरुपवृंहयेत् । असंस्तुतां तु
गुणकथनैरनुरागकथाभियावर्जयेत् ॥
 
नायकाभिज्ञानैरिति नायकस्य तया सह पूर्वे व्यावृत्तानि तैरुपबृंहयेद-
त्यन्तमनुरक्तां कुर्यात् । असंस्तुतामित्यपरिचिताम् । अभिज्ञानासंभवात् ।
नायकस्य गुणकथनैरनुरागकथामिश्चावर्जयेत् ।
 
अत्राचार्याणां मतभेदमाह -
 
नासंस्तुतादृष्टाकारयोर्दूत्यमस्तीत्यौद्दालकिः । असंस्तुतयोरपि
संसृष्टाकारयोरस्तीति वाभ्रवीयाः । संस्तुतयोरप्यसंसृष्टाकारयोर-
१. 'तत्'. २. 'अयुक्तियुक्तं'. ३. 'निथय न. ४. 'नासस्तुताससृष्टाकारयो.; 'ना-
संमष्टाकारयोरसंस्तुतयोः .