This page has not been fully proofread.

१८
 
कामसूत्रम् ।
 
२ आदितोऽध्यायः]
किमस्य तृतिरभून्न वेति । तस्मादसमानार्थत्वादनुपाय आन्तरसंप्रयोगः ।
तत्र समानार्थजन्यमेव प्रेम स्त्रीरक्षणोपायो नास्तीति मनुष्येष्वेवमिति चे-
दत एवास्योपदेशः । अन्यथान्यसमानार्थत्वादनुपायः । तत्पत्न्याः पुरुषा-'
न्तरगमने न कश्चित्पुरुषार्थोऽस्य स्यात् । तथा चोक्तम् – 'भजते संभृतप्रेमा
परं चेदस्य कामिनी । नष्टे धर्मे हते वृत्ते सुखं दूरे हतं कुलम् ॥ तस्मा-
त्समानार्थताजन्यमेव प्रेम स्त्रीरक्षणोपायः । यच्च स्त्रीरक्षणार्थं मनुप्रोक्त-
मसुकुमारत्वसाघनाथै कुट्टनादि गृहकर्म तदुपायोद्वेगजननादनुपाय एव ।
तथा चोक्तम् –'कर्माण्यसुकुमाराणि रक्षणार्थेऽवदन्मनुः । तासां सज
इवोद्दामगजालानोपसंहिताः ॥ असति प्रेम्णि तत्सर्वमित्याचार्या व्यवस्थि-
ताः । समानार्थतया तच्च न शास्त्रेणोपदिश्यते ॥' इति । अबुद्धिपूर्वकत्वा-
दिति । धर्मोऽर्थः पुत्राः संवन्धः पक्षवृद्धिः स्यादित्येवं बुद्धिपूर्वं न प्रव-
र्तन्ते । केवलं पशुधर्ममात्रेणेत्यनुपायः प्रत्यय आन्तरसंयोगः । अनुवन्धो-
पायरहितत्वात् । तस्माद्दैवरक्ताः किंशुका इति किं तिर्यग्योनिषु शास्त्र-
प्रणयनेन । अनुकूलेषु वा पुरुषेषु । इतरत्र तु विपर्ययेण सोपाय: प्रत्यय
इति युक्तं शास्त्रप्रणयनम् ।
 
धर्मे विप्रतिपत्तिमाह -
 
न धर्माश्चरेत् । एष्यत्फलत्वात्, सांशयिकंत्वाच ॥
एष्यत्फलत्वादिति । यज्ञादयो नेहलौकिका जन्मान्तरफला उक्ताः ।
हस्तगतद्रव्यत्यौगं न प्रेक्षावान्समीहते । किं त्विहैव तेन कृष्यादिफलं
निष्पाद्योपमुते । न परम्परामपेक्षते । सांशयिकत्वाञ्च भविष्यतः फलस्ये-
ति । उपस्कारतस्तपश्चर्याक्लेशादर्थक्षयाच निष्पादितेऽपि यज्ञादौ ततः
किं खर्गादिफलं स्यान्न वेति संदिग्धम् । कारणानां कार्योत्पादननियमाद-
र्शनात् । संदिग्धे च कोऽसंशयितार्थत्यागेन प्रवर्तत इति हेतुद्वयम् ।
तत्र प्रथमस्य लोर्केप्रसिद्धिमाह -
 
को ह्यवालिशो हस्तगतं पैरगतं कुर्यात् ॥
 
१. 'जृम्भितप्रेमा' पा०. २. 'अननुकूलेषु', 'अनानुकूल्येषु' पा०. ३. 'त्यागेन' पा०.
४. 'लोकसिद्धमाह' पा०. ५. 'पादगतम्' पा●●