This page has not been fully proofread.

२६ आदितोऽध्यायः ]
 
सूक्ष्मभावायामस्फुटभावायाम् ।
 
२७८
 
कामसूत्रम् ।
 
सायामिति । या प्रथमं चारित्रं खण्डयति ।
एतद्नुमतमप्रतिषिद्धत्वात् ।
 
सा नायकस्य चरितमनुलोमतां कामितानि च कथयेत् । प्रसृ-
तसद्भावायां च युक्त्या कार्यशरीरमित्थं वदेत् । शृणु विचित्रमिदं
सुभगे, त्वां किल दृष्ट्वामुत्रासावित्थं गोत्रपुत्रो नायकचित्तोन्माद-
मनुभवति । प्रकृत्या सुकुमारः कदाचिदन्यत्र परिक्लिष्टपूर्वस्तपस्वी ।
ततोऽधुना शक्यमनेन मरणमप्यनुभवितुमिति वर्णयेत् । तत्र
सिंद्धा द्वितीयेऽहनि वाचि बक्रे दृष्ट्यां च प्रसादमुपलक्ष्य पुनरपि
कथां प्रवर्तयेत् । शृण्वत्यां चाहल्याविमारकशाकुन्तलादीन्यन्या-
न्यपि लौकिकानि च कथयेतंयुक्तानि । वृपतां चतुःपष्टिविज्ञतां
सौभाग्यं च नायकस्य । श्लाघनीयतां (या) चास्य प्रच्छन्नं संप्रयोग
भूतमभूतपूर्व वा वर्णयेत् । आकारं चास्या लक्षयेत् ॥
 

 
चरितमनुलोमतामानुलोम्यं कामितानि चेति त्रिविधं कामितं रतस्यार-
म्मे मध्येऽवसाने च । प्रसृतसद्भावायां नायिकायां सत्याम् । अन्यथोक्ते
दोपकरणमपि स्यात् । युक्त्या न यथाकथंचित् । यदर्थे दूतीकल्पस्तत्का-
र्यशरीरम् । इत्थमिति वक्ष्यमाणप्रकारम् । विचित्रमिदं यदन्याभिः काम्य-
मानोऽपि त्वां दृष्ट्वापि चित्तोन्मादमनुभवति । एवं च सुभग इत्यामघ्रणम-
र्थवद्भवति । किलेति त्वं दृष्टासीति परोक्षं ममेत्याह । इत्थं गोत्रपुत्रो न
यस्य कस्यचित्पुत्रः । कार्यस्य बलीयस्त्वं दर्शयन्नाह — प्रकृत्येति । अन्यत्रे-
त्यन्यस्याम् । अपरिक्लिष्टपूर्वस्तद्वचन [कर ]त्वात्स्त्रीणाम् । तपस्खीत्यनुक-
म्पायाम् । शक्यमनेन मरणमप्यनुभवितुं विनश्य (इन्च) तीत्यर्थः । तत्रेति
तस्मिन्नभिधीयमाने सिद्धा न प्रत्याख्याता । वाचि वक्रे दृष्टयां च त्रिष्वपि
प्रसादं प्रसन्नताम् । कथां प्रवर्तयेत्सामान्याम् । शृण्वत्यां स्वकथाम् । अ-
हल्या गोतमभार्या तयोत्कण्ठितया देवराजः कामितः । अग्निहोत्रकेना(णा)-
निपरिचरणे वधूनियुक्ता । सा च कुण्डादुत्थितेन मूर्तिमतानिना कामिता ।
 
-
 
१. 'खण्डयित्वा.' २. 'सिद्धां.' ३. 'अन्यानि च तद्वृत्तानि कथयेत.' ४ 'तद्वृत्तानि '
५. 'सनृपतां.' ६. 'दास्या श्लाघनीयतां.' ७. 'संप्रयोगभूत वा. '