This page has not been fully proofread.

५ पारदारिकमधिकरणम् ।
 
२७७
 
। यदासौ मृगी तदा नैव शशतादोपः ।
एतेनैव वडवाहस्तिनीविपयथोक्तः ॥
 
४ अध्यायः]
 
लक्षयेत्तेनैवानुभविशेत्
 
शीलत इति शीलेनादावनुप्रविश्य विश्वासार्थ शीलवती स्यात् । आ-
ख्यानकपटैरिति यमुपदिश्याख्यानकानि चित्रलिखितानि । सुभगंकरणै-
योगैर्वक्ष्यमाणैः । लोकवृत्तान्तैः पुराणनिवन्धनैः । कविकथामिरिति कवि-
मिर्निवद्धाभिर्बिन्दुमतीप्रभृतिभिः । पारदारिककथाभिर्गोतमबृहस्पत्यादि-
दाराणामिन्द्रचन्द्रादिभिरपहरणकथाभिः । अनुप्रविश्य किं कुर्यादित्याह-
तस्या इति नायिकाया रूपं वर्ण संस्थानं च । [विज्ञानदाक्षिण्यं] शास्त्र-
कलासु दाक्षिण्यमानुकूल्यम् । शीलं सुखभावता । तेषां प्रशंसाभिः । क-
थमेवंविधाया यथोक्तगुणाया इत्थंभूतो वैरूप्यादिप्रकारमापन्नः । अनुशयं
विप्रतीसारं ग्राहयेत् [न] भद्रकमापतितं यदहमनेनोढेति । सुभग इत्याम-
त्रणं जनसौभाग्यख्यापनार्थम् । दास्यमपि किमु तव पतित्वम् । मन्दवे-
गतां च भाषेत यदि सा चण्डवेगा । उपलक्षणं चैतत् । शीघ्रवेगतां च
यदि चिरवेगा । असंभोगशीलतामिति विषयान्भोक्तुमशीलताम् । कदर्य-
तामहीनकामताम् । अन्यानि चेति पारुष्यनैर्घृण्यदाम्मिकत्वादीनि । तस्मि-
न्पत्यौ । अस्या अभ्याश इति नायिकायाः समीपे यथान्यो न शृणोति ।
सति सद्भाव इति विदेग्धत्वे सति । अतिशयेन भाषेत येन सा तथैव प्र
तिपद्यते । येन चेति प्रत्यक्षीकृतेन तद्दोषेण तेनैवैनामनुप्रविशेत् । कथि-
तमेव मया यथायं दोषबहुल इति । नैव शशतादोषः किं त्वश्वत्वदोपो
वाच्यः । एतेनैवेत्यनन्तरोक्तेन स्वजातीयन्यायेन । वडवाहस्तिनीविपययोगे
न दोषो वृषत्वमश्वत्वं च । किं तु शशत्वं दोषः ।
 
-
 
दूत्योपसर्पयेदिति सामान्येनोक्तमत्र गोणिकापुत्रदर्शनमाह-
नायिकाया एव तु विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्प्रथ-
मसाइसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ॥
 
विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्कसिन्विषय इत्याह – प्रथमसाह -
 
१. 'भीषयेत् . ' २. 'विदग्धा सैव सती. '