2023-02-19 13:59:28 by ambuda-bot
This page has not been fully proofread.
३ अध्याय: ]
५ पारदारिकमधिकरणम् ।
२७३
परुपमुक्त्वापि प्रीतियोजिनीं प्रीतियोजनशीलां साधयेत्पुनरभियुञ्जीत ।
तस्या जातविप्रतीसारत्वात् ।
कारणात्संस्पर्शनं सहते नावबुध्यते नाम द्विधाभूतमानसा सा-
तत्येन क्षान्त्या वा साध्या ।
कारणादिति कुतश्चिन्निमित्तात्संस्पर्शनमभियोगं सहते । न शुष्कप्रति-
आहिणीत्यर्थः । नावबुध्यते नामेति नायकाभिप्रायमजानतीव संस्पर्शनं
सहते सैवंभूता द्विघाभूतमानसा परीक्षणीयत्वात्सातत्येन क्षान्त्या साध्यति ।
अविच्छेदेन संस्पर्शस्य क्षमणं कार्यमित्यर्थः ।
समीपे शयानायाः सुप्तो नाम करमुपरि विन्यसेत् । सापि सुप्ते-
वोपेक्षते । जाग्रती त्वपनुदेद्भूयोऽभियोगाकाङ्क्षिणी ॥
समीपे शयानाया आन्तराभियोगेन प्रवृत्तिं परीक्षेत । सुप्ता नामेति कृत-
कमपदिश्यापनयति । किमर्थमित्याह – भूयोऽभियोगाकाङ्क्षिणीति । अ-
न्यथा कि सुप्तेनैव न्यस्तः किं वाभियोगार्थं कृतकसुतेनेति संदेहः ।
एतेन पादस्योपरि पादन्यासो व्याख्यातः ॥
एतेन हस्तन्यासेन ।
तस्मिन्मसृते भूयः सप्तसंश्लेषणमुपक्रमेत् । तदसहमानामुत्थितां
द्वितीयेऽहनि प्रकृतिवर्तिनीमभियोगार्थिनीं विद्यात् । अदृश्यमानां
तु दूतीसाध्याम् ॥
तस्मिन्निति हस्तन्यासे पादन्यासे च । प्रसृते निवन्धनत्वेन प्रवृत्ते ।
सुप्तसंश्लेषणमिति कृतकसुताया आलिङ्गनमेवोपक्रमेण (त) चुम्बनादिकम् ।
तदिति संश्लेषणम् । उत्थितां शयनात् । प्रकृतिवर्तिनीमकुपिताम् । अभि-
योगार्थिनीं विद्यात् । दृश्यमाना पुनरभियुजीतेत्यर्थः । अस्या अप्रगल्भ-
त्वात् । अदृश्यमानां तु प्रकृतिवर्तिनी दूतीसाध्यां [विद्यात्] तद्विषयत्वात् ।
१. 'करचरणसस्पर्शन'. २. 'सश्लेषणनियमोपक्रमेत्.
का० ३५