2023-02-19 13:59:28 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
२५ आदितोऽध्यायः ]
सविशेषमिति यथा पूर्वमलंक्रियमाणा अतः सविशेषमलंकृता पुनर्नाय-
केन दृश्येत तथैवाभिगच्छेत् [च]। नायिकां विविक्ते स्थितां बलाङ्गृढीयाद्ध-
ठादृषां विद्यात् ॥
२७२
बनपि विपहतेऽभियोगान च चिरेणापि प्रयच्छत्यात्मानं सा
शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या ॥
धीरत्वाद्वहूनपि विषहते ये ये क्रियन्ते । न च चिरेणापीति बहुमि-
रपि दिवसैः । शुष्कप्रतिग्राहिणीत्यर्थशून्यानभियोगान्प्रतिग्रहीतुं शीलमस्याः ।
अतिपरीक्षणीयत्वात् । परिचयविघटनसाध्येति परिचयापनयनसाध्या ।
कथं तदपनयनात्सिध्यतीत्याह-
मनुष्यजातेचित्तानियत्वात् ॥
मनुष्यजातेरिति तचित्ताभिधानम् । चित्तानित्यत्वादिति मनसब्धल-
त्वात् । यतो विच्छिन्ने परिचये पुनः स्वयं संधत्ते ।
अभियुक्तापि परिहरति । न च संसृज्यते । न च प्रत्याचष्टे ।
तस्मिन्नात्मनि चे गौरवाभिमानात् । सातिपरिचयात्कृच्छ्रसाध्या ।
मर्मज्ञया दूत्या तां साधयेत् ॥
अभियुक्तापि परिहरति । अभियोगं परिहत्यापि काचित्संसगै यातापी-
त्याह । न च संसृज्यते इति तस्या आत्मन्यभिमानात् । न च प्रत्याचष्टे
नायिका (यक) मेकान्तेन । तस्मिन्नायके च गौरवाभिमानात् । सातिपरिच-
यात्कृच्छ्रसाध्या तस्या ह्यतिघीराया अतिपरिचयेन गौरवाभिमानौ कृच्छ्र-
यन्स्फुटयति । मर्मज्ञया दूत्या साध्या । तद्वगत्वात् ।
तत्र विशेषमाह-~
सा चेदभियुज्यमाना पारुष्येण सादिशत्युपेक्ष्या ॥
पारुष्येण प्रत्यादिशति निष्ठुरवाक्येण प्रत्याचष्टे । उपेक्षिताभियुञ्जीत ।
अत्रापि विशेषमाह -
परुपयित्वापि तु प्रीतियोजिनीं साधयेत् ॥
१. 'अतिपरीक्षणीयत्वात्' पुस्तकान्तरे नास्त्रि. २. 'चेतो'. ३. 'तद्वित्ता'. ४. 'ना•
भियुक्तापि'. ५. 'वा'. ६. 'प्रत्यादिशेदुपेक्य'.