This page has not been fully proofread.

३ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२७१
 
स श्वश्रूकां श्वश्र्वधिष्ठितां न तर्कयेत । जानन्प्रत्ययमित्यहमत्राशक्त इति
निश्चयमगच्छन् । इत्यभियोगाश्चतुश्चत्वारिंशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धागनाविरह-
कातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रमाध्याया पारदा-
रिके पश्चमेऽधिकरणे परिचयकारणान्यभियोगा
द्वितीयोऽध्यायः ॥
 
तृतीयोऽध्यायः ।
 
सत्यप्यभियोगे धीराः प्रगल्मपरीक्षिण्यो याः स्त्रियस्ता न निर्मिन्नसद्भा-
वास्ततश्च न तासु विशेषाभियोग इति भावपरीक्षोच्यते-
अभियुञ्जानो योपितः प्रवृत्ति परीक्षेत । तेया भावः परीक्षितो
भवति । अभियोगांच प्रतिगृह्णीयात् ॥
 
प्रवृत्तिं चेष्टां परीक्षेत । अनया हि परीक्षितया भावः परीक्षितो भ-
यति । तत्कार्यत्वात् ।
कथं साध्येत्याह-
-
 
मन्त्रमण्वानां दूसैनां साघयेत् ॥
 
मन्त्रमवृण्वानामिति सांप्रयोगिकं भावमप्रकाशयन्तीं दूत्या साधयेत् ।
प्रगल्भत्वात् ।
 
अप्रतिगृह्याभियोगं पुनरपि संसृज्यमानां द्विधाभूतमानसां वि-
द्यात् । तां क्रमेण साधयेत् ॥
 
अप्रतिगृह्णाभियोगं नायकेन क्रियमाणं प्रत्याख्याय पुनरपि कियन्तो
दिवसान्स्थित्वा संसृज्यमानां नायकेन संसर्गे यातां द्विघाभूतमानसां वि-
द्यात् । परीक्षणीयत्वात्किं कुर्यामहं न वेति तां क्रमेण साधयेत् ।
अत्र विशेषमाह -
 
-
 
अप्रतिगृह्याभियोगं सविशेषमलंकृता च पुनर्दृश्येत तथैव तम-
भिगच्छेच विविक्ते वलाद्रहणीयां विद्यात् ॥
 
१. 'यावत्'. २. 'तया भावः परीक्षितो भवति इति पुस्तकान्तरे टीकान्तः पा-
सितम्. ३. 'अभियोगांच प्रतिगृह्णीयात्' पुस्तकान्तरे नास्ति. ४. 'चेत्,