This page has not been fully proofread.

२७०
 
कामसूत्रम् ।
 
२४ आदितोऽध्यायः]
 
आन्तरानधिकृत्याह-
क्रमेण च विविक्तदेशे गमनमालिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं
दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ॥
 
क्रमेण चेति यदैकान्तेन गतसाध्वसा तदा विविक्तदेशगमनं यस्मि-
न्प्रच्छन्ने देशे तिष्ठति । तत्र चालिङ्गनादयः प्रयोक्तव्याः । गुझदेशाभि-
मर्शनं कक्षोरुमूलविमर्दनम् । जघने उत्क्षिप्तकेन ।
 
अभियोगस्याविषयमाह -
 
यत्र चैकाभिर्युक्ता न तत्रापरामभियुञ्जीत । तत्र या वृद्धानुभू-
तविपया प्रियोपग्रहैश्च तामुपगृह्णीयात् ॥
 
यत्र चेति गृहे । अपरामिति द्वितीयां नामियुञ्जीत । प्रियोपमहैश्चेति
प्रियं यदा खसुखकारणं तदैवोपग्रहः । उपगृह्यतेऽनेनेति । उपगृह्य स्त्री-
कृत्योपन्यस्यात् ।
 
श्लोकावत्र भवतः -
 
अन्यत्र दृष्टसंचारस्तद्भुर्ता यत्र नायकः ।
न तत्र योपितं कांचित्सुप्रापामपि लङ्घयेत् ॥
शङ्कितां रक्षितां भीतां सश्वश्रूकां च योपितम् ॥
न तर्कयेत मेधावी जानन्प्रत्ययमात्मनः ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे
परिचयकारणान्यभियोगा द्वितीयोऽध्यायः ।
 
यत्रेति यस्मिन्गृहे नायिकाया भर्ता अन्यस्यां योषिति दृष्टसंचारो दृ-
ष्टाभिगमो न तत्र गृहे सुप्रापामपि सुलभामपि लङ्घयेदधिगच्छेदित्यर्थः ।
शकिताममियोक्तरि जाताशङ्काम् । रक्षितां शस्त्रिभिः । भीतां पत्युः ।
 
१. 'दाने पुष्पाणां च'. २. 'युवा स्यात्'. ३. 'विशेषा'. ४. 'यावत', 'रक्षन्'.